________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। महामोहादिमैन्यं तु मन्यते गाढवल्लभम् // इतश्च / यत्र संसारिजीवस्य पक्षपाती बलेऽधिकः / तस्यैव विजयो नूनं स हि सर्वस्य नायकः // ततो यावन जानौते मोऽस्माकं सैन्यमुत्तमम् / यावच्च पक्षपातोऽस्य नाद्याप्यस्मासु जायते // तावन युक्तः संरम्भो न यानं न च विग्रहः / युक्त माम तदा स्थानमुपेक्षा गजमौलिका // संकुचन्ति हि विद्वांसः कार्य संचिन्य किंचन / केसरौ गजनिर्घाते यथोत्यातविधित्मया // न पौरुषं गलत्यत्र नश्यतोऽपि विजानतः / मेषो ह्यपसरत्येव रहदास्फोटदित्मया // सम्यग्दर्शनेनोकं / धार्य संमारिजीवोऽसौ न जाने ज्ञास्यते न वा / अस्मानेतेऽरयो नित्यमधुनैवं विवाधकाः // तदद्य संयमस्तावदित्थमेभिः कदर्थितः / श्वः सर्वानपि हन्तारस्ततः स्थातं न युज्यते // मद्दोधेनोकं / आर्य मोत्तालतां कार्षीः कालमाध्ये प्रयोजने / ध्रुवं संसारिजीवोऽसौ ज्ञास्यते नः कदाचन // यतः / स कर्मपरिणामाख्यो नरेन्द्रोऽत्र बलदये / For Private and Personal Use Only