________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 उपमितिभवप्रपञ्चा कथा हिरण्यमित्रभूमौनां लाभाः सिद्धिचयं विदुः / / तथा / सामभेदोपदानानि दण्डश्चेति चतुष्टयम् / नौतौनां सर्वकार्यषु पर्यालोच्चं विजानता // तथा। श्रान्वौतिको चयो वार्ता दण्डनौतिस्तथा परा / विद्याश्चतस्रो भूपानां किलेताः सन्ति गोचरे / / तदेतद्देवपादानां भवतश्च विशेषतः / प्रतीतमेव निःशेषं वर्ण्यतां किं महत्तम // केवलं ज्ञातशास्त्रोऽपि स्वावस्था यो न बुध्यते / तस्याकिञ्चित्करं ज्ञानमन्धस्येव सुदर्पण: // प्रवर्तताविवेकेन स ह्यसाध्येऽपि वस्तुनि / ततश्च / लोके स जायते हास्यः समूलश्च विनश्यति / इदं मूलविनष्टं हि तात मवं प्रयोजनम् / अतोऽद्य तावकोत्साहः कुत्र नामोपयुज्यताम् / यतः / भवचक्रमिदं सर्व वयं ते च महारयः / म कर्मपरिणामाख्यो यश्च राजा महाबलः // आयत्तं सर्वमेवेदं तस्यैकस्य महात्मनः / तात संसारिजीवस्य यस्यायत्ता महाटवौ // म चाद्यापि न आनौते नामापि खल मादृशाम् / For Private and Personal Use Only