________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 834 उपमितिभवप्रपञ्चा कथा / अतो निर्भिद्य निःशेषं शत्रुवर्ग नराधिप / निष्कण्टकां महौं कृत्वा ततो भव निराकुम्लः // तदेवमुद्धतं वाक्यमभिधाय महत्तमः / मौनेनावस्थितः सद्यः कृत्वा कार्यविनिर्णयम् // अथाभिधातुं यत्कृत्यं लौलामन्थरया दृशा / चारित्रधर्मराजेन मद्दोधः प्रविलोकितः // ततो निर्गीय गर्भार्थं कार्यतत्त्वस्य कोविदः / मद्दोधः सचिवः सारं वाक्यमित्यमभाषत // साधु साधूदितं देव विदुषा तेन ते पुरः / संप्रत्यसाम्प्रतं वक्तुं मादृशामत्र वस्तुनि // तथापि ते महाराज यन्ममोपरि गौरवम् / तदेव लम्भितोत्माहं वाचालयति मादृशम् // ततः सम्यग्दर्शनं प्रत्याह / अहो तेज:प्रधानत्वमहो वाचि प्रगल्भता / अहो ते स्वामिभक्तत्वं चारु चारु महत्तम // सत्यं मानवतां धौर दुःसहोऽरिपराभवः / सत्यं पराभिभूतस्य लोके निःमारता परा // सत्यं दुष्टाः शाठा वध्या महामोहादिशत्रवः / सत्यं नहातकाः सर्वे देवपादानुजीविनः // किं च / तिष्ठन्तु पुरुषास्तावद्देवशासनवर्तिनः / नार्योऽपि देवसैन्यस्य तेषां निर्घातने क्षमाः / For Private and Personal Use Only