________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रमा प्रस्तावः। 803 यत्मुखं मूढमौनस्य तत्सुखं भूप गेहिनाम् // एतावदुःखमङ्घातपातनिर्भिन्नमस्तकाः / मद्धर्मरहिता भूप गेहिनो नारकोपमाः // मत्माधूनां पुनर्भगवतां महाराज नण्यन्येवामी पूर्वोदिताः सर्वे ऽपि चद्रोपद्रवाः / यतस्तेषां भगवतां प्रनष्टं मोहतिमिरं आविर्भूतं मम्यगज्ञानं निवृत्तः सर्वत्राग्रहविशेषः परिणतं सन्तोषामृतं व्यपगता दुष्टक्रिया त्रुटितप्राया भवंवल्लरी स्थिरीभूतो धर्ममेघसमाधिः / तथा गाढानुरक्तमन्तरङ्गमन्तःपुरं। यतस्तेषां भगवतां सन्तोषदायिनी तिसुन्दरी चित्तप्रसादहेतुः श्रद्धा आल्हादकारिणी सुखामिका निर्वाणकारणं विविदिषा प्रमोद विधायिनी विज्ञप्तिः मद्दोधकारिणी मेधा प्रमदातिरेकनिमित्तमनुप्रेक्षा अनुकूलचारिणी मैत्री अकारणवत्सला करुणा सदानन्ददायिनी मुदिता सर्वोद्वेगघातिनी उपेक्षेति / तदेताभिः समायुकाः सुन्दरौभिर्नरेश्वर / दृष्टाभिदृढरक्ताभिर्मोदन्ते ते मुनीश्वराः // मंमारमागरोत्तौणं निर्वाणसुखमागरे / निमग्नं ते मदात्मानं मन्यन्ते मुनिपुङ्गवाः // नेन्द्राणां तत्र देवानां नापि तच्चक्रवर्तिनाम् / मयानपरिपूतानां यत्सुखं शान्तचेतसाम् // ये खकेऽपि महात्मानो वर्तन्ते देहपञ्जरे / परा इव सुखं तेषां भूप कः प्रष्टुमर्हति // संमारगोचरातीतं यत्सुखं वेदयन्ति ते / For Private and Personal Use Only