________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 9 . यूचं च प्रचलायध्वे माहं भो मूढमानवाः // हे पापा: कलिता यूयं नूनं कालेन बालिशाः / मुनिं मां दुर्बलं मत्वा तेनैवं हमथाधना // अथ तौ भास्कराकारौ दृष्ट्वा तस्याधिगोलको / जाज्वल्यमानौ सहसा प्रकाशितदिगन्तरौ // जिहां च विद्युदाभामां दन्तपंक्ति च भाखराम् / दृष्ट्वा श्रुत्वा च तां वाचं जगतः कम्पकारिणीम् / क्षणादेव तदास्थानं भौतकम्पितमानसम् / संजातं सिंहनादेन यथा हरिणयूथकम् // ततो धवलराजेन विमलं प्रति भाषितम् / कुमार नेष कोऽपौह नरः प्रकृतिमानुषः // तथाहि / मसाविलं पुरा चक्षुरधुना भास्कराधिकम् / अस्य देदीप्यते वत्म तेजमा वक्रकोटरम् // अनेकरणसट्टभटकोटिविदारिणः / श्रुत्वाम्य भारतौं वत्म कम्पते मम मानसम् // नदेष न भवत्येव तावत्मामान्यमानवः / देवः कश्चिदिहायातः प्रच्छनो मुनिवेषकः // एवं च स्थिते / यावत्र तेजमा वाम सर्वं भस्मौकरोत्ययम् / तावत्प्रसादयाम्येनं क्रोधान्ध मुनिपुङ्गवम् // विमलेनोक्तं / For Private and Personal Use Only