________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 774 उपमितिभवप्रपञ्चा कथा / न चाहं नाथ शक्रोमि तनिवारयितुं चलम् / अतः प्रमोद तद्देव देव वारय वारय // किं ममापि विकल्पोऽस्ति नाथ तावकशामने / येनैवं लपतोऽधीश नोत्तरं मम दीयते // आरूढमियतों कोटौं तव किङ्करतां गतम् / मामप्यतेऽनुधावन्ति किमद्यापि परौषहाः // किं चामो प्रणताशेषजनवौर्यविधायक / उपसर्गा ममाद्यापि पृष्ठं मुञ्चन्ति नो खलाः // पश्यन्नपि जगत्मवं नाथ मां पुरतः स्थितम् / कषायारातिवर्गण किं न पश्यसि पौडितम् // कषायाभिद्रुतं वौच्य मां हि कारुणिकस्य ते / विमोचने समर्थस्य नोपेचा नाथ युज्यते // विलोकिते महाभाग त्वयि संसारपारगे / श्रासितुं क्षणमप्येकं संसारे नास्ति मे रतिः // किं तु किं करवाणौह नाथ मामेष दारुणः / श्रान्तरो रिपुसङ्घातः प्रतिबध्नाति सत्वरम् // विधाय मयि कारुण्यं तदेनं विनिवारय / उद्दामलीलया नाथ येनागच्छामि तेऽन्तिके // तवायत्तो भवो धीर भवोत्तारोऽपि ते वयः / एवं व्यवस्थिते किं वा स्थौयते परमेश्वर // तबीयतां भवोत्तारो मा विलम्बो विधीयताम् / नाथ निर्गतिकोलापं न पटण्वन्ति भवादृशाः // For Private and Personal Use Only