________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 773 खसंवेदनमिद्धं मे निश्चलं त्वयि मानसम् / साक्षाभूतान्यभावस्य यदा किं ते निवेद्यताम् // मच्चित्तं पद्मवनाथ दृष्टे भुवनभास्करे / त्वयौह विकसत्येव विदलत्कर्मकोशकम् // अनन्तजन्तुसन्तानव्यापाराक्षणिकस्य ते / ममोपरि जगनाथ न जाने कौदृशौ दया // समुन्नते जगन्नाथ त्वयि सद्धर्मनौरदे / नृत्यत्येष मयूराभो मद्दोर्दण्डशिखण्डिकः // तदस्य किमियं भकिः किमुन्मादोऽयमौदृशः / दौयतां वचनं नाथ कृपया मे निवेद्यताम् // मञ्जरीराजिते नाथ सच्चते कलको किलः / यथा दृष्टे भवत्येव लमत्कलकलाकुलः // तथैष सरसानन्दबिन्दुसन्दोहदायक / त्वयि दृष्टे भवत्येवं मूर्खाऽपि मुखरो जनः // तदेनं मावमन्येथा नाथासंबद्धभाषिणम् / मत्वा जनं जगज्ज्येष्ठ सन्तो हि नतवत्सलाः // किं बालोऽलोकवाचाल भालजालं लपत्रपि / न जायते जगन्नाथ पितुरानन्दवर्धनः // तथालौलाक्षरोलापजल्पाकोऽयं जनस्तव / किं विवर्धयते नाथ तोषं किं नेति कथ्यताम् // अनाद्यभ्यासयोगेन विषयाशुचिकर्दमे / गते सूकरसंकाशं याति मे चटुलं मनः // For Private and Personal Use Only