________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / लोकेन धिक्कारितः शिष्टजनेन हसितो बालमार्थन बहिष्कृतः खजनवर्गण। जातस्तुणादपि जनमध्ये लघुतरो ऽहमिति / तथापि महानुभावतया विमलो मामवलोकयति चिरन्तनस्थित्या न दर्शयति विप्रियं न मुञ्चति स्नेहभावं न शिथिलयति प्रमादं न रहयति मां क्षणमप्येकं / वदति च / वयस्य वामदेव न भवता मनागयज्ञजनवचनैश्चित्तोद्वेगो विधेयः / यतो दुराराधोऽयं लोकस्ततो भवादृशामेष केवलमवधोरणामहतौति / न च न प्रतोतं तस्य महात्मनो विमलस्य तदा मदीयचरितं / तथापि अहं बहुलिकादोषात्तादृशो दुष्टचेष्टितः / म तादृशो महाभागस्तत्रेदं विद्धि कारणम् // वारुण्यामुदयं गच्छेदस्तं प्राच्यां दिवाकरः / लवयेत स्वमर्यादां यदा क्षौरमहार्णवः // अथवा / वकिपिण्डोऽपि जायेत कदाचिद्धिमशीतलः / अलाबुवत्तरेबोरे निक्षिप्तो मेरुपर्वतः // निर्व्याजस्नेहकारुण्यः सद्दाक्षिण्यमहोदधिः / तथापि सुजनो भने प्रतिपन्नं न मुञ्चति // अन्यच्च / जानबपि न जानौते पश्यन्नपि न पश्यति / भ श्रद्धत्ते च शुद्धात्मा मज्जनः खलचेष्टितम् // ततोऽहं बन्धुभिस्यको लोके संजातलाधवः / विचरामि तदा साधं विमलेन महात्मना / For Private and Personal Use Only