________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 752 उपमितिभवप्रपञ्चा कथा / मपौति। केवलं न प्रतिपन्नमनेनाद्यापि किं चद्दर्शनं / रत्नचूडेन चिन्तितं। अये सर्व सुन्दरमाख्यातमनेन / तदिदमन प्राप्तकालं / दर्शयाम्यस्य भगवद्दिम्बं / उचितोऽयं तद्दर्शनस्य / संपत्स्य तेऽस्य तद्दर्शनेन महानुपकारः। एवं च कुर्वतो ममापि प्रत्युपकारकरणमनोरथः परिपूर्ण भविष्यतीति / विचिन्याभिहिताऽनेन विमलकुमारः / यथा। कुमार इह कौडानन्दने समागतः क्वचित्पूर्व मदौयमातामहो मणिप्रभः। प्रतिभातमिदमतिकमनीयं काननं / ततेाऽत्र पुनः पुनर्विद्याधराणामवतारार्थं महाभवनं विधाय प्रतिष्ठितं तेन भगवतो युगादिनाथस्य बिग्बं / अत एव बहुशोऽहमिहागतः पूर्व / तता ममानुग्रहेण तट्रष्टुमईति कुमारः। विमलेनोक। यहदत्यार्यः / तदाकर्ण्य इष्टो रनचूडः / ततो गता वयं भवनाभिमुखं / दृष्टं भगवती मन्दिरं / तच्च कीदृशम् / विमलम्फटिकच्छायं स्वर्णराजिविराजितम् / तडिदलयसंयुक्तशरदम्बुधरोपमम् // विलमजवैडूर्यपद्मरागमणित्विषा / नष्टान्धकारसम्बन्धमुद्योतितदिगन्तरम् // अपि च / लसदच्छाच्छनिर्मल स्फटिकमणिनिर्मित कुट्टिमवान्त विलसत्तापनौयस्तम्भं स्तम्भविन्यस्तविद्रुमकिरणकदम्बकर तमुक्ताफलाइचलं अवचूलविरचितमरकतमयूखण्यामायमानसित चमरनिकरं मितचमरनिकरदण्डचामौ करप्रभापिञ्जरितादर्भमण्डलं श्रादर्शमण्डलगतविराजमानारुणमणिहारनिकुरुम्ब हारनिकुरुम्बावलम्बितविशदहाटक For Private and Personal Use Only