________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / द्योतिताशेषदिक्चक्रं सर्ववर्णविराजितम् / लगदच्छ प्रभाजालेर्दिन बद्धेन्द्र कार्मुकम् // तच्च दर्शयित्वाभिहितं रत्नचूडेन / कुमार। सर्वरोगहरं धन्यं जरादारिद्र्यनाशनम् / गुणैश्चिन्तामणेस्तुल्यमिदं रत्नं सुभेचकम् // दत्तं ममेदं देवेन ताषितेन स्वकर्मणा / दह लोके करोत्येतत्सर्वा शापूरणं नृणाम् / / तदस्य ग्रहणेन ममानुग्रहं करोतु कुमारो नान्यथा मे तिः संपद्यते / विमलेनोक्तं / महात्मन कर्तव्यो भवताग्रहो न च विधेया चेतस्थवभावना। दत्तमिदं त्वया ग्टहीतं मया। केवलं तवैवेदं सुन्दरं। अतः संगोप्यतामिदं। मुच्यतामतिसम्ममः / ततश्चतमयति / कुमार न कर्तव्यो भवतार्यपुत्रस्यायमभ्यर्थनाभङ्गः / तथाहि। निःस्पृहा अपि चित्तेन दातरि प्रणयोद्यते / सन्तो नाभ्यर्थनाभङ्गं दाक्षिण्यादेव कुर्वते // एवं च चूतमञ्जर्या वदन्यां विमलः किल / किमुत्तरं ददामीति यावचिन्तयते हृदि // तावइस्त्राच्चले तस्य रत्नचूडेन सादरम् / तद्रत्नं बद्धमेवोच्चैर्दिव्यकर्पटके स्थितम् // अथ तादृशरत्नस्य लाभेऽपि विगतस्पृहम् / मध्यस्यं हर्षनिर्मुकं विमलं वौच्य चेतसा // स रत्नचडः खे चित्ते तद्गुणैर्गाढभावितः / तदा विचिन्तयत्येवं विस्मयोत्फुल्ललोचनः / For Private and Personal Use Only