________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तयोश्चैकः पुरुषो मुहुर्मुहुलताग्टहक प्रवेष्टुमभिवाञ्छति स्म / ततः सा बाला भयविहला वेपमानपयोधरा हरिणिकेव सिंहत्रासिता दशस्वपि दिक्षु चक्षुः क्षिपन्तो निर्गत्य पलायितुं प्रवृत्ता। ततो दृष्ट्वा विमलकुमारमभिहितमनया / चायख पुरुषोत्तम त्रायख गतास्मि तवाहं शरणं / विमलेनोक्तं / सुन्दरि धौरा भव नास्त्यधुना ते भयं / अत्रान्तरे तनहणार्थ प्राप्तः स पुरुषः / स च विमलकुमारगुणगणोपार्जिततया तस्मिन्नेव गगने स्तम्भितो वनदेवतया। ततो विस्फारिताक्षोऽसौ विलक्षो विगतक्रियः / चित्रभित्ताविव न्यस्तो गगनस्थः स्थितो नरः // अत्रान्तरे स तस्य द्वितीयः पुरुषो निर्जितस्तेन मिथुनकेन पलायितुं प्रवृत्तः / लग्नस्तत्पृष्ठतो मिथुनकः / दृष्टः स्तम्भितनरेण / ग्टहीतोऽसौ रोषोत्कर्षण / प्रवृत्ता पृष्ठतो गमनेच्छा। लक्षितो देवतया तद्भावः / ततश्चोत्तम्भितोऽमावनया। प्रवृत्तः पृष्ठतो वेगेन। इतश्च लच्चित्तौ दृष्टेर्गोचरमितरौ / गतः सोऽपि तदनुमार्गणादर्शनं / ततः सा बाला प्रार्यपुत्र हा आर्यपुत्र क यासि मां मुक्का मन्दभाग्यामिति प्रलपितुं प्रवृत्ता। संस्थापिता कथंचिदिमलेन मया च / गता कियत्यपि वेला / अत्रान्तरे जयश्रिया परीताङ्गो लसत्कान्तिमनोहरः / समागतः स वेगेन तस्या मिथुनको नरः / ततस्तं दृष्ट्वा मा बालिकामृतसेकसितव गता परमपरितोषं। निवेदितश्च तया तस्मै वृत्तान्तः / ततः स पुरुषो विमलकुमारं प्रणम्येदमाह। For Private and Personal Use Only