________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 735 735 तवर्णनं हि को नाम पारयेत्कोऽवधारयेत् // अतः समासतस्तुभ्यं यदि गाढं कुतूहलम। ततोऽहं कथयाम्येष लक्षणं नरयोषितोः // मयोक्तं / अनुग्रहो मे / विमलेनोक्तं / रकस्निग्धमवक्रं च पद्माभं मृदु कोमलम् / प्रशस्तं वर्णितं प्राजैः सुस्लिष्टं पादयोस्तलम् // शशिवज्राङ्कुशच्छत्रशङ्खादित्यादयस्तले / पादयोर्यस्य दृश्यन्ते स धन्यः पुरुषोत्तमः / / एत एव च चन्द्राद्या यद्यसंपूर्णभिन्नकाः / भवेयुः पश्चिमाभोगाः संपद्यन्ते तदा नरे // रामभो वा वराहो वा जम्बुको वा परिस्फुटम् / दृश्येत पादतलयोर्यस्थासौ दुःखितो नरः // मयोक्तं। लक्षणे प्रस्तुते वहुं त्वयेदमपलक्षणम् / किमुक्तं विमलः प्राह समाकर्णय कारणम् // लक्ष्यते दृष्टमात्रस्य नरस्येह शुभाशुभम् / येन तल्लक्षणं प्रोक्तं तवेधा सुन्दरेतरम् // ततः सर्व समासेन सुखदुःखनिवेदकम् / शरीरसंस्थितं चिहं लक्षणं विदुषां मतम् // तेनापलक्षणस्यापि यदिदं प्रतिपादनम् / युक्तं तद्भद्र जानीहि प्रस्तुते नरलक्षणे // मयो। For Private and Personal Use Only