________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 734 उपमितिभवप्रपञ्चा कथा / यते कस्यायं शब्द इति / प्रतिपन्नमनेन / गतौ स्तोकं भूमिभागं / दृष्टा पदपद्धतिः / विमलेनोक्तं / वयस्य वामदेव मनुषमिथनस्य कस्यचिदषा पदपद्धतिः। यतः। पश्यैकानि पदान्यत्र कोमलानि लघूनि च / दृश्यन्ते वालुकामध्ये सूत्मरेखाङ्कितानि च // तथान्यानि पुनर्व्यकचक्राङ्कुशझषादिभिः / लाञ्छितानि विभाव्यन्ते पदानि विरलानि च // लगन्ति च न देवानां पदानौह भुवस्तले / सामान्यपुरुषाणां च नेदृशौ पदपद्धतिः // तदत्र वयस्य वामदेव विशिष्टेन केनचित्ररमिथुनेन भाव्यं / मयोक्तं ! कुमार सत्यमेवमिदमग्रतो गत्वा निरूपयावः / ततो गतौ पुनः स्तोकं भूभागं / दृष्टमतिघनतरुगहनमध्ये लताग्रहकं / निरूपितं लतावितानविवरेण / तत्र च निलौनं दृष्टमपहसितरतिमन्मथमौन्दर्य तप्रिथनं। विलोकितं विमलेन नखाग्रेभ्यो वालाग्राणि यावत् / न दृष्टौ मिथुनेनावां / अपस्तौ कतिचित्पदानि / विमलेनोक्तं / वयस्य न सामान्याविमौ स्त्रीपुरुषो। यतोऽनयोः शरीरे विशिष्टानि लक्षणान्युपलभ्यन्ते / मयोक्तं / कीदृशानि नरनार्लिक्षणानि भवन्ति / महत्कुलहलं मे। ततस्तान्येव तावन्निवेदयतु कुमारः। विमलेनोक्तं / लक्षग्रन्थममाख्यातं विस्तरेण वरानन / पुलक्षणं झटित्येव कस्तवर्णायितुं क्षमः // तयैव लक्षणं नार्या विज्ञेयं बजविस्तरम् / For Private and Personal Use Only