________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तहत्तमन्त्रसेव्यश्च तत्कोशपरिवर्धकः // तदादेशकरो नित्यं तथापि गुरुपौरुषः / नूनं तं पालयत्येष राजकार्य यथेच्छया / तेनेष लौकिकी वाचो युक्रिमाश्रित्य पण्डितैः / महासननिविष्टोऽपि ऊो राजा निगद्यते // नानयोभिद्यते तात तस्माद्भेदः परस्परम् / यस्मादेकमिदं राज्यमेतत्तुभ्यं निवेदितम् // प्रकर्षः प्राह मे माम विनष्टः संशयोऽधुना / अथ वा त्वयि पार्श्वस्थ कुतः मन्देहसम्भवः / तदेवविधसज्जल्पकल्पनापगतश्रमौ / तौ विलय दिनर्मागें भवचक्रे परागतौ // दूतच परिपाच्यैव शिशिरो लवितस्तदा / संप्राप्तश्च जनोन्मादी वसन्तो मन्मथप्रियः // स ताभ्यां नगरासन्ने भ्रमनुद्दामलीलया / वसन्तः काननेषूच्चैः कीदृशः प्रविलोकितः // यदुत / नृत्यचिव दक्षिणपवनवगोवेल्लमानकोमललताबाहुदण्डैयन्निव नानाविहङ्गकलकलकलविरुतैर्महाराजाधिराजप्रियवयस्यकमकरकेतनस्य राज्याभिषेके जयजयशब्दमिव कुर्वाणो मत्तकलकोकिलाकुलकोलाहलकण्ठकूजितैस्तर्जयन्निव विलममानवरचतककलिकातर्जनौभिराकारयचिव रक्ताशोककिसलयदलललिततरलकरविलमितैः प्रणमन्निव मलयमारुतान्दोलितनमच्छिखरमहातरूत्तमाङ्गहसचिव नवविकसितकुसुमनिकराट्टहासै रुदबिव वटितन्त For Private and Personal Use Only