________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सम्पत्तेर्दर्शनीयतामामादयति धूलिधूमराणि चास्य सर्वाङ्गोपाङ्गानि पुलकोद्भेदभानि दृश्यन्ते। न चैतदन्तर्विवर्त्तमानहर्षव्यतिरेकेण संपद्यते तस्मादिदमस्य नृपभवनपक्षपातलक्षणं परमेश्वरावलोकनाया द्वितीयं कारणमिति। तदेतत्सर्वं सद्धर्माचार्या अपि जौवविषयं पर्यालोचयन्तः परिकयन्त्येव / तथा हि। यो जीवो हेतुभिलक्ष्यते यथा संजातकर्मविवरोऽयं तथा भगवच्छासनमुपलभ्य यस्य प्रादुर्भवति मनःप्रसादः म च भगवन् लक्ष्यते प्रतिक्षणं नेत्रोन्मीलनकल्पया जीवादिपदार्थजिज्ञासया विभाव्यते प्रवचनार्थलवाधिगमे विकसितवदनकल्येन संवेगदर्शनेन मिश्चीयते च धलिधसरिताङ्गोपाङरोमाञ्चाकारण सदनुष्ठानले शप्रवृत्तिविलोकनेन तस्य जीवस्य सम्पन्ना भगवदवलोकनेति निर्गीयते / तस्मादिहापि निश्चयकारणे तदस्त्येव हेतुइयं यदुत मञ्जातकर्म विवरता भगवच्छामनपक्षपातश्चेति / यथा च तेन महानसनियुक्तकेन द्रमकगोचरमेतचिन्तितं यदुत यद्यपौदानौमेष रोराकारमाविभर्ति तथापि महानरेन्द्रावलोकनादेवोत्तरोत्तरक्रमेण संभवत्कल्याणपरम्परः कालान्तरे वस्तुत्वं प्रतिपत्स्यते खल्वेष नास्त्यत्र सन्देह इति। तथा मद्धर्मगुरवोऽपि परमात्मावलोकनां जौवे विनिश्चित्य तस्य भविष्यद्भद्रतां विगतसन्देहाः स्वहृदये स्थापयन्येव / यथाचामौ महानसननियुक्तकस्तत्र द्रमके महानरेन्द्रावलोकनां निर्णेय तदनुवृत्तिवन करुणप्रवण: सम्पन्नः / तथा जौवेपि परमात्मावलोकनामाकलय्य सद्धर्मगुरवस्तदाराधनपरायणतयैव करुणाप्रवणमानमाः सञ्चायन्ते / तदनुकम्पया तैरपि भगवानाराधितो भवतीत्यर्थः / For Private And Personal Use Only