________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 545 यदन्यदपि कुर्वन्ति भद्र तत्ते निवेदये // जराजौर्णकपोला ये हास्यप्रायाश्च योषिताम् / वलीपलितखालित्यपिप्लुव्यङ्गादिदूषिताः // तेऽपि त्रपन्त जरमा विकाररसनिर्भराः / कथयन्यात्मनो जन्म गाढमित्वरकालिकम् // अनेकद्रव्ययोगैश्च कार्यसम्पत्तये किल / तममेव महार्दैन रञ्जयन्ति शिरोरुहान् // जनयन्ति मृजां देहे नानास्नेहर्मुहुर्मुहुः / तथा कपोलशैथिल्यं यत्नतश्छादयन्ति ते // भ्रमन्ति विकटं मूढास्तरुणा व लीलया / वयास्तम्भनिमित्तं च भक्षयन्ति रसायनम् // खच्छायां दर्पणे बिम्ब निरीक्षन्ते जलेषु च / क्लिश्यन्ते राढया नित्यं देहमण्डनतत्पराः // पाहतास्तात तातेति ललनाभिस्तथापि ताः। पितामहसमाः सन्तः कामयन्ते विमूढकाः // सर्वस्य प्रेरणाकाराः सन्तोऽपि नितरां पुनः / कुर्वन्तो हास्यविब्बोकान गाढं गच्छन्ति हास्यताम् // जराजौर्ण शरीराणं येषामेषा विडम्बना / ते भद्र मति तारुण्ये कीदृशाः सन्तु जन्तवः // लेभान्त्रक्लेदजाम्बालपूरिते ते कडेवरे। श्रामक्रचित्ताः खिद्यन्ते यावचौवं वराककाः // अनन्तभवकोटौभिलब्ध मानुय्यकं भवम् / 69 For Private And Personal Use Only