________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gce उपमितिभवप्रपञ्चा कथा / यतः स्त्रीवचनादेव यो मूढात्मा प्रवर्तते / कार्यतत्त्वमविज्ञाय तेनानी न दुर्लभः // ततोऽनादरतः किंचिल्लोलतायाचने सति / दत्त्वा खाद्यादिकं तावत्कुर्महे कालयापनाम् // ततश्च / भार्ययं पालनौयेति मत्वा रागविवर्जितः / ददानः शुद्धमाहारं लोलतां च निवारयन् // अविश्रब्धमनास्तस्यां लोकयात्रानुरोधतः / अनिन्दितेन मार्गण रसनामनुवर्तयन् // धर्मार्थकामसंपन्नो विवद्भिः परिपूजितः / स्थितो विचक्षण: कालं कियन्तमपि लौलया // तं च तेजखिनं मत्वा निरीहं च विचक्षणम् / भावज्ञा किंचिदप्येनं याचते नैव लोलता || स लोलताविनिर्मुको रसनां पालयन्नपि / अशेषक्लेशहौनात्मा सुखमास्ते विचक्षणः // यतः / ये जाता ये जनिष्यन्ते जडस्येह दुरात्मनः / रसनालालने दोषा लोलता तत्र कारणम् // विचक्षणेन मा यस्माल्लोलतालं निराकृता / रमनापालनेऽप्यस्य ततोऽनर्थी न जायते // दूतश्च तुष्टचित्तेन जडेनाम्बा खयोग्यता / जापिता रमनालाभं जनकश्चाशुभोदयः // For Private And Personal Use Only