________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 उपमितिभवप्रपञ्चा कथा! खाभिप्रायानुमानेन मन्यन्ते दोषपुनकम् // ये मज्जना पुनर्धन्यास्ते लोकं दोषपूरितम् / खाभिसन्धिविशुद्यैव लक्षयन्ति गुणालयम् // एवं च स्थिते / यद्भासते गुणित्वेन गुणहीनोऽप्ययं जनः / कुमार तावके चित्ते सौजन्यं तत्र कारणम् // प्रतापस्तावकोनोऽयं समस्तोऽपि सुनिश्चितम् / भावत्कवीर्यविख्याताः के वयं परमार्थतः // तदिदं शैलराजीयं वचनं सुमनोहरम् / आकर्याहं तदा भने परं स्नेहरमं गतः // चिन्तितं च मया। अहो मय्यनुरागोऽस्य अहो गम्भौरचित्तता / अहो वचनविन्यामस्तथाहो भावमारता // ततो मयाभिहितं / वयस्य नेदृशं वाच्यमुपचारपरं वचः / ममाग्रतो यतो ज्ञातं माहात्म्यं तावकं मया ! ततो हर्षवशात्तेन शैलराजेन जल्पितम् / प्रमादपरमे नाथे भृत्यानां किं न सुन्दरम् // अन्यच्च / यदि सम्भावना जाता भवतां मादृशे जने / ततो मे परमं गुह्यं भवद्भिरनुमन्यताम् // विद्यते मम मौर्य हदयस्यावलेपनम् / For Private And Personal Use Only