________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / बलं भुवनविख्यातं रूपं भुवनभूषणम् // मौभाग्यं जगदानन्दमैश्वर्यं भुवनातिगम् / श्रुतं पूर्वभवाभ्यस्तं परिस्फुरति मेऽग्रतः // मघवापि पदं खौयं यद्यहं प्रार्थये ततः / ददात्येव न कार्य मे लाभगकिरियं मम / / ये चान्येऽपि तपोवौर्यधैर्यमत्त्वादयो गुणाः / ते मय्येव वमन्त्युच्चैर्विमुच्य भुवनत्रयम् // यदि वा। यस्येदृशेन मित्रेण संजातो मम मौलकः / तस्य को वर्णयेलो के गुणसम्भारगौरवम् // तथाहि। पुरुषम्य भवेत्तावत्सर्वस्यैकमिहाननम् / अयं वक्त्राष्टकेनैव जयत्येव परं जनम् // तदेष शैलराजो मे यस्य प्राप्तो वयस्यताम् / तम्य नास्ति जगत्यत्र यन्न मंपनमन्त्रमा // ततोऽवलिप्तचित्तोऽहं तां विकल्पपरंपराम् / वर्धयन्नात्मनः मर्व ननं मन्ये तदा जनम् // जोकृतनिजग्रोवो नक्षत्राणि निभालयन् / अग्रतोऽपि न पश्यामि मत्तवगन्धवारणः // आपूर्ण भूरिवातेन विततात्मा यथा दृतिः / ततोऽहं विचरामि स्म निःमारो मदविहलः // चिन्तयामि न मे वन्द्यः कश्चिदस्ति जगत्त्रये / For Private And Personal Use Only