________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 उपमितिभवप्रपञ्चा कथा / यदानादौ भवेऽमौषां मत्स्यानामिव मागरे / मदा दोलायमानानां जीवानां दुःखसङ्कले // स्वकर्मपरिणामेन भव्यत्वपरिपाकतः। मनुष्यत्वादिसामय्या तथा काला दियोगतः // धन्यः सकल कल्याणजनकोऽचिन्त्यशक्तिकः / यत्र क्वचिद्भवेन्नौवेऽनुग्रहः पारमेश्वरः॥ म तदा लभते जीवो दुर्भदयन्थिभेदतः / अशेषक्लेशनि शि जैनेन्द्रं तत्त्वदर्शनम् // ततोऽसौ ग्रहिधर्म वा प्राप्नुयाज्जिनभाषितम् / लभते माधुधर्म वा सर्वदुःखविमोचकम् // मा चेयती भवेत्कस्य सामग्रौयं सुदुर्लभा / राधावेधोपमानेन धर्मप्राप्तिः प्रकीर्तिता // तदत्र लब्धे सद्धर्म कुरुध्वं यत्नमुत्तमम् / अलब्धस्य तु लाभार्थं घटध्वमिह हे जनाः // अचान्तरे चिन्तितं नरेन्द्रेण / केवलज्ञानदिवाकरो भगवानयं। नास्त्यस्य किंचिदज्ञेयं / अतः पृच्छामि भगवन्तमात्मीयसंशयं / अथवा पश्यत्येव भगवान्मदौयसन्देहं जिज्ञासां वा / अतः कथयतु ममानुग्रहेण / ततो भगवता सूरिणा भव्यजनबोधनार्थमभिहितो मरेन्द्रः / महाराज वाचा पृच्छ / नृपतिनाभिहितं / भदन्त येयं मदौयदुहिता मदनमञ्जूषा अस्याः पद्मनृपतिसुतनन्दिवर्धनकुमाराय दानार्थं प्रहितो मया जयस्थले स्फुटवचनो नाम महत्तमः / गतः कियानपि कालो न निवृत्तोऽमौ / ततः प्रहिता For Private And Personal Use Only