________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 287 इष्टेः स्पर्शादिभिस्तोषो देषवृद्धिस्तथेतरः / एतत्वरूपमेतेषामिन्द्रियाणां नृपोत्तम // दुर्जयानि यथा तानि कथ्यमानं मयाधुना / दत्तावधानस्तं सर्वमनुश्रुत्यावधारय // अनेकभटमकोण समरे योधयन्ति ये / मत्तमातङ्गसंघातमेतैस्तेऽपि विनिर्जिताः // अङ्गल्यये निधायेदं भुवनं नाटयन्ति ये। शकादयोऽतिशनिष्ठास्तेऽप्यमौभिर्वशौकताः // हिरण्यगर्भवैकुंठमहेश्वरपुरःमराः / एतैर्निराकृताः सन्तः सर्वेऽकिङ्करतां गताः // अधौत्य सर्वशास्त्राणि परमार्थविदो जनाः / एभिर्विधुरिताः सन्तश्चेष्टन्ते बालिशा इव // एतानि हि स्वबौर्यण मसुरासुरमानुषम् / वराकमिव मन्यन्ते सकलं भुवनत्रयम् // दुर्जयानि ततोऽमूनि हृषौकाणि नराधिप / एवं सामान्यतः कृत्वा हृषीकगुणवर्णनम् // ततश्च / ज्ञानातोकेन वृत्तान्तं बोधनार्थं मनीषिणः / सूरिभाषे मद्दन्तदीधितिच्छुरिताधरः // अथवा महाराज। तिष्ठन्तु तावच्छेषाणि दृषौकाणि जगज्जये / स्पर्शनेन्द्रियमेवैकं समर्थ बत वर्त्तते // For Private And Personal Use Only