________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 उपमितिभवप्रपञ्चा कथा / कूलं विदधतः पुनर्भवती ममोपकरणं वर्त्तते तदेवं स्थिते स्पर्शनानुकूलचारिणो बालस्य दर्शितो मयाकुशलमालाव्यापारणबारेण कश्चिदात्मनः प्रतिकूलताफलविलेशः / अस्य तु मनीषिण: स्पर्शनप्रतिकूलवर्त्तिनो न मयाद्यापि निजानुकूलताफलविशेषो दर्शितो यद्यपि यदिदमस्य स्पर्शने निरभिष्वङ्गतया मृदुशयनसुरतादीन्यनुभवतः संपद्यते सुखम् / यश्चायं ममुलसितो लोकमध्येऽयशःपटहो न च संपन्नः कचिदपायगन्धोऽपि विचरतस्तस्यास्य ममस्तस्य व्यतिकरस्याहमेव भवत्यैवोपकरणभूतया कारणं तथापि मयि सप्रमादे नैतावन्मात्रमेवास्य फलमुचितम् / अतिप्रिये विशिष्टतरफलसंपादनार्थमस्य मनौषिणो यत्नं कुरुष्वेति / शुभसुन्दर्युवाच / साध्वार्यपुत्र साधु सुन्दरमभिहितं देवेन स्थितं ममापौदं हृदये योग्य एव मनीषौ देवप्रसादानां तदेषानुतिष्ठामि यदाज्ञापितं देवेनेत्यभिधाय व्यापारिता शुभसुन्दर्या योगशक्तिः विहितमन्तर्धानं प्रविष्टा गता मनौषिशरौरे प्रादुर्भूतोऽस्य प्रमोदः / सितममृतसेकेनाम्बाशरीरं प्रवृत्ता निजविलमितोद्यानगमनेच्छा प्रस्थितस्तदभिमुखं चिन्तितमनेन कथमेकाको गच्छामि बहुश्च कालो ग्रहप्रविष्टस्य तिष्ठतो मध्यमबुद्धेरतीतो विस्मतोऽधुना लोकस्य बालवृत्तान्तो व्यपगतं तस्य लग्नाकारणम् / अतस्तमपि निजविल सितोद्याने नयामोति विचिन्त्य गतो मनौषो मध्यमबुद्धिसमीपं निवेदितं तस्मै निजाकृतम् / दूतश्च कर्मविलासेन तस्यापि जननी सामान्यरूपा तत्फलविपाकसंपत्तये तथैव प्रोत्साहिता मा ह्यकुशलमालाशुभसुन्दाः माधारणवीर्या विचित्रफलदायिनौ स्वरूपतो वर्तते / ततस्तथाधि For Private And Personal Use Only