________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 उपमितिभवप्रपञ्चा कथा / खवीर्यण निर्वर्त्तयन्ति। तथा हि। कर्मविलासप्रतिकूलताजनितोऽयं बालस्य परमार्थतः सर्वोऽप्यनर्थः संपन्न इति / ततो मयाभिहितं अपगतोऽधुना मे सन्देहः अग्रतः कथय विदुरेणाभिहितम् / ततः कृच्छ्रेणातिक्रान्ते याममात्रे रजन्याः प्राप्तः स्वसदनं बालः दूतश्चाकर्णितः प्रभात एव तदीयवृत्तान्तो मध्यमबुद्धिना। ततो बालखेहलेशस्यानुवर्तमानतया संजातो मनाग् विषादः चिन्तितमनेन हा किमौदृशं संपन्नं बालस्येति पुनपर्यालोचयतः प्रादुर्भूतोऽस्य मनसि प्रमोदः चिन्तितमनेन पश्यताहो मनोषिवचनकरणाकरणयोरिह लोक एवान्तरम् / तथाहि। तदुपदेशवर्त्तिनो मेऽधुना न संपनः क्लेश: नोदौर्णमयशः पूर्वं पुनविपरीतचारिणो द्वयमप्यामौत् बालस्य पुनरकान्ततो मनौषिवचनविपरीताचरणनिरतस्य यत्मपद्यते दुःखसंघाता विज़म्भते जगत्ययशःपटहः संजायते मरणं तत्र किमाश्चर्य तदस्ति ममापि काचिद्धन्यता यया मनौषिवचने बहुमानः संपन्न इति / तथाहि / नैवाभव्यो भवत्यत्र मतां वचनकारकः / पतिः कांकटुकेनैव जाता यत्नशतैरपि // एवं भावयतश्चित्ते बालस्नेहं विमुञ्चतः / प्रमोदपूर्णचित्तस्य लंधित तस्य तद्दिनम् // ततः समागते बाले लोकाचारानुवर्त्तनम् / कुर्वता विहितं तेन तस्य संभाषणं किल // पृष्टश्चाशेषवृत्तान्तं विषादगतबुद्धिना / For Private And Personal Use Only