________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सुखामिका वर्द्धितश्चानन्द इति तथैष व्यतिकरो जोवेऽपि समानो वर्त्तते / तथा हि। यथा धावन्नन्धो भित्तिस्तम्भादौ लब्धास्कोटो वेदनाविहलस्तामास्कोटवेदनां परस्मै कथयति। तथायमपि जौवो यदा गुरुनिवारिताचरणेन दृष्टापायत्वात् संजातप्रत्ययो भवति तदा तानेकप्रकारानपायान् गुरुभ्यो निवेदयति। यदुत भगवनहं यदा युभनिवारणया न ग्रामि स्तेनाहृतं न करोमि विरुद्धराजातिक्रम नाचरामि वेश्यादिगमनं नानुतिष्ठामि तथाविधमन्यदपि धर्मलोकविरुद्धं न रज्यामि महारंभपरिग्रहयोः तदा मां लोकः माधुतया रक्षाति मयि विश्रंभं विधत्ते लाघां चाचरति तथा न जानामि शरीरायामजनितं दुःख संपद्यते हृदयस्वास्थ्यं धर्मश्चैवं तिष्ठतां सुगतिप्रापको भवतीति भावनया भवति चित्तानन्द इति। यदा तु युभन्निवारणा न भवति भवन्तौ वा तामनपेक्ष्य निबन्धतया न जानन्ति मां गुरव इत्यभिप्रायेण धनमूर्छनया ग्टहामि स्तेनाहतादिकं विषयलौल्येन गच्छामि वेश्यादिकं समाचरामि तादृशमन्यदपि भगवनिवारितं तदा लोकादश्लाघां राजकुलात्सर्वस्वहरणं शरीरखेदं मनस्तापभपरांश समस्ताननानिह लोक एव प्राप्नोमि। पापंच दुर्गतिगर्त्तपातहेतुरेवं वर्तमानानां भवतीति चिन्तया दन्दह्यमानहृदयः क्षणमपि सुखं न लभेऽहमिति / तस्मानाथास्तथा कुरुध्वं यूयं यथाहमनवरतं युग्मदचनाचरणमन्नाहेन सततमेतस्मादनर्थशरजानाद्रक्षितो भवामीति। ततस्तदाकर्ण्य गुरवो ब्रूयुः भद्र For Private And Personal Use Only