________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पुनः ' घमघडित्ति ' इति वदसि ? परमार्थ कथय ? अर्जुनेनोक्तं जो स्वामिन एतदवस्थापरमार्थकथनेऽपि कः सत्यं मानयिष्यति ? को जनााति पुनर्मदीयकर्मणा किं भविष्यति तदहं न जानामि तदा दुर्गपालपुरुषैरुक्तं नो स्वामिन् कोऽपि महाघृष्टो विलोक्यते, यदेतस्योत्संगतः प्रत्यक्षमेवेदं मस्तकमस्माभिर्निष्कासितं तथापि सत्यं न जल्पति. ' घमघडि - त्ति ' इत्युत्तरं ददाति राज्ञापि रोषवशेन शूलिकायामेनं प्रक्षेपयतेत्यादेशो दत्तः, सेवका प्र पितं गृहीत्वा शूलिकापार्श्वे समागताः.
एतस्मिन्नवसरे कश्विदेको विकरालरूपधारी पुरुषः समागत्य वदतिस्म अरे पुरुषा यथेनंदनिष्यथ ती सर्वानहं हनिष्यामि; इवमुक्ते तेन साई संग्रामो जातः सर्वेऽपि दक्किता नष्टा राजांतिकमागताः, तत् श्रुत्वा स्वयं नृपो यो ुमुद्यतो निर्जगाम. तदा तेनैकक्रोशप्रमाशरीरं विकुर्वितं राज्ञा चिंतितं नायं मनुष्यः कोऽपि यक्षराक्षसादिजातीयो विलोक्यते. धूपोत्पादिपूर्वकं क्षमस्वापराधमित्यनिवंदितः स प्रत्यक्षीभूय शरीरं लघु कृत्वा वदतिस्मजो राजन् अहं दुःखमाकालनामा, लोका मां कलिरिति कथयति अधुना भरतक्षेत्रे मम
For Private And Personal
मालाटी.
॥ ३६ ॥