________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
66
॥ सुखावतीव्यूहः ॥ भगवानाह । ये तेऽजित बोधिसत्वा अन्येषु बुद्धक्षेचेषु स्थिताः सुखावत्यां लोकधातावुपपत्तये 'विचिकित्सामुत्पादयंति तेन चित्तेन कुशलमूलान्यवरोपयंति तेषामत्र गीवासो भवति । ये पुनर्निर्विचिकित्सामुत्पाद्य छिन्नकांक्षाः सुखावत्यां लोकधातावुपपत्तये कुशलमूलान्यवरोपयंति बुद्धानां भगवतामसंगज्ञानमेवाकल्पयंत्यभिधत्यधिमुच्यते त औपपादुकाः पद्मेषु पर्यकैः प्रादुर्भवति । ये तेऽजित बोधिसत्वा महासत्ता अन्यत्र बुद्धक्षेवेषु स्थिताश्चितमुत्पादयंत्यमिताभस्य तथागतस्याहतः सम्यक्संबुद्धस्य दर्शनाय न विचिकित्सामुत्पादयंति न कांक्षंत्यसंगं बुद्धज्ञानं स्वकुशलमूलं चाभिश्रधति तेषामौपपादुकानां पर्यकैः 'प्रादुर्भूतानां मुहूर्तमाचेणैवंरूपः कायो भवति तद्यथान्येषां चिरोपपन्नानां सत्वानां ॥ पश्याजित प्रज्ञाविशेष' प्रज्ञावमायं प्रज्ञापरिहाणिं प्रज्ञापरीततां यनु हिताय पंच वर्षशतानि परिहीणा भवंति बुद्धदर्शनाबोधिसत्वदर्शनाद्धर्मश्रवणाधर्मसंकथनाकुशलमूलचर्यायाः परिहीणा भवंति सर्वकुशलमूलसंपतिभिः । यदिदं विचिकित्सापतितैःसंज्ञामनसिकारैः। तद्यथापि नामाजित राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य बंधनागारं भवेत्सर्वसौवर्णवैडूर्य
__1 प्रस्थिताः P. From विचिकित्सा to चितेन left out in c. From तेषां to कुशलमूलान्यवरोपयंति left out in c. P. 4 From वरोपयंति to महासस्वा स left out in A. B. वरोपयंति in p.only. ज्ञानस्व A. ज्ञानं ख B.C. P. प्रादभूतानां मुहर्तमात्रेणैवरूपा: A. प्रादुर्भूतानामुहूत्रमात्रेणैवरूपाः B. प्रादुर्भूतानामुहूतमात्रेणैवरूपाः C. प्रादुभूतानां मुहूतमात्रेनैवरूपाः P. प्रज्ञाशेषां A. B. प्रज्ञाशेष c. प्रज्ञाविशेषं P. From नि परिहौणा to पिता left out in P. संपत्तभि A. संपतिभिः॥ B. संवर्तभिC.
For Private and Personal Use Only