________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
57
॥ सुखावतीव्यूहः ॥ वर्तमानेषु यदा बुद्धानां भगवतां लोके प्रादुर्भावो भवति । तद्यथापि नाम ममैतहि ॥३६॥
तस्मिन्खलु पुनरानंद बुद्धक्षेत्रे ये बोधिसत्वाः' प्रत्याजाताः सर्वे त एकपुरोभक्तेनान्याल्लोकधातून्गत्वानेकानि बुद्धकोटीनियुतशतसहस्राण्युपतिष्ठंति यावदाकांक्षति बुद्धानुभावेन । ते यथायथा चितमुत्पादयंति एवमेवंरूपैः पुष्पधूपदीपगंधमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयंतीतूर्यसंगीतिवाद्यैः पूजां कुर्याम इति तेषां सहचितोत्पादानथारूपाणि च सर्वपूजाविधानानि पाणौ प्रादुर्भवंति। ते तैः पुष्पैर्यावहाद्यैस्तेषु बुद्धेषु भगवासु पूजां कुर्वती बहपरिमाणासंख्येयं कुशलमुपचिन्वंति। 'सचेत्पु. नराकांक्षन्येवंरूपाः पुष्पपूटाः पाणौ प्रादुर्भवंत्विति तेषां सहचित्तोत्पादान्नानावणी अनेकवणी नानागंधा दिव्याः पुष्पपूटाः पाणौ प्रादुर्भवंति । ते तैस्तथारूपैः पुष्पपूटैस्तान्बुद्धान्भगवतो ऽवकिरंत्यभ्यवकिरंत्यभिप्रकिरंति । तेषां च यः सर्वपरीतः पुष्पपूट उत्सृष्टः स दशयोजनविस्तरं पुष्पच्छचं प्रादुर्भवत्युपर्यंतरीक्षे द्वितीये चानूसृष्टे न प्रथमो धरण्यां प्रपतति। संति तत्र पुष्पपूटा य उत्सृष्टाः संतो विंशतियोजनविस्ताराणि पुष्पच्छवाण्युपर्यंतरीक्षे प्रादुर्भवंति । संति त्रिंशञ्चत्वारिंशत्पंचाशद्योजनविस्ताराणि
1 सत्त्वाः A. B.C. बोधिसञ्चाः P.
एवंमेवंरूपैः A. एवमेव रूपैः B. C. P. या A.C. P. deest in B. From सचेत to प्रादुर्भवति । left out in B.. भवन्ति A. भवन्विति C. भवन्निति P. अभ्यवकिांति C. सशयोजन A. C. शतयोजन B. दशयोजन P.
[III. 2.]
For Private and Personal Use Only