________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
32
॥ सुखावतीव्यूहः ॥ तद्यथा स एकविंदुरियंततः स प्रथमसन्निपातोऽभूत्। तैौद्गल्यायनसदृशैर्भिक्षुभिर्गणयद्भिस्तेन वर्षकोटीनियुतशतसहस्रेण गणितं भवेत् यथा महासमुद्रेऽप्स्कंधोऽवशिष्ट एवमगणितं द्रष्टव्यं । कः पुनादी द्वितीयतृतीयादीनां श्रावकसंनिपातानां । एवमनंतापर्यंतस्तस्य भगवतः श्रावकसंघो योऽप्रमेयासंख्येय इत्येव संख्यां गच्छति ॥१३॥
अपरिमितं चानंद तस्य भगवतोऽमिताभस्य तथागतस्यायुःप्रमाणं यस्य न सुकरं प्रमाणमधिगंतुमियंति वा कल्पशतानीयंति वा कल्पसहस्राणीयंति वा कल्पशतसहस्राणीयत्यो वा कल्यकोट्य इयंति वा कल्यकोटीशतानीयंति वा कल्पकोटीसहसाणीयंति वा कल्यकोटीशतसहस्राणीयंति वा कल्पकोटीनियुतशतसहस्राणीति । अथ तानंदापरिमितमेव तस्य भगवत आयुःप्रमाणपर्यंतं । तेन स तथागतोऽमितायुरित्युच्यते । यथा चानंदेह लोकधातौ कल्यगणनाप्रज्ञप्तिसंकेतस्तथा सांप्रतं दशकल्यास्तस्य भगवतोऽमितायुषस्तथागतस्योत्पन्नस्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य ॥१४॥
तस्य खलु पुनरानंद भगवतोऽमिताभस्य सुखावती नाम लोकधातुर्गद्धा च स्फीता च शेमा च सुभिक्षा च रमणीया च
1 इयंततः A. B. C. P. इयत्तमः or इयान्ततः for इयांस्ततः? संख्येया A. C. संख्येय P. संख्ये B.
न is given here in C. only; it is put in between प्रमाणं and यस्य in B.; and it is left out in A. P. P. has सा before तथा.
For Private and Personal Use Only