________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सुखावतीव्यूहः ॥ तोत्पादान्न प्रतिगृह्णीयुर्यदिदमनुकंपामुपादाय मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥२५॥ सचेन्मे भगवन्बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुस्ते सर्वे न नारायणवज्रसंहतात्मभावस्थामप्रतिलब्धा भवेयुमा तावदहमनुत्तरां सम्यक्सं बोधिमभिसंबुध्येयं ॥
॥२६॥ सचेन्मे भगवन्बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे यः कश्चित्सत्त्वोऽलंकारस्य वर्णपर्यंतमुगृह्णीयादंतशो दिव्येनापि चक्षुषेवंवर्णमेवंविभूतीदं बुद्धक्षेत्रमिति' नानावर्णतां जानीयान्मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥२७॥ सचेन्मे भगवन्बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे यः सर्वपरीतकुशलमूलो बोधिसत्त्वो सोऽतशी योजनशतोत्थितमुदारवर्ण बोधिवृक्षं न संजानीयान्मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं ॥
Acharya Shri Kailassagarsuri Gyanmandir
1 एवं वर्ण एविभूतिरिदं बुद्धक्षत्रमेति A एव वणा एवं विभूतिरिदं बुद्धक्षेत्रेमिति C. P.
D
॥२४॥ सचेन्मे भगवन्बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे कस्यचित्सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यान्न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुमा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥२९॥ सचेन्मे भगवन्बोधिप्राप्तस्य नैवं प्रभास्वरं तद्दुद्धक्षेत्रं भवेद्यत्र समंतादप्रमेयासंख्येया चिंत्यातुल्यापरिमाणानि बुद्ध -
17
For Private and Personal Use Only
एवं वर्णाः एवं विभूतिरिदं बुद्धक्षेत्रेमिति B.
[ III. 2. 3