________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
13
॥ सुखावतीव्यूहः ॥ ॥९॥ सचेन्मे भगवंस्तस्मिन्बुद्धक्षेत्रे ये सवाः प्रत्याजायेरंस्ते सर्वे न परचित्तज्ञानकोविदा भवेयुरंतशो बुद्धक्षेत्रकोटीनियुतशतसहस्रपर्यापन्नानामपि सवानां चित्तचरितपरिज्ञानतया मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥१०॥ सचेन्मे भगवंस्तस्मिन्बुद्धक्षेत्रे ये सवाः प्रत्याजायेरंस्तेषां काचित्परिग्रहसंज्ञोत्पद्येतांतशः स्वशरीरेऽपि मा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥११॥ सचेन्मे भगवंस्तस्मिन्बुद्धक्षेत्रे ये सत्ताः प्रत्याजायेरंस्ते सर्वे न नियताः स्युर्यदिदं सम्यक्वे' यावन्महापरिनिर्वाणे मा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ।।
॥१२॥ सचेन्मे भगवंस्तस्मिन्बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य कश्चित्सत्वः श्रावकाणां गणनामधिगच्छेदंतशस्त्रिसाहस्रमहासाहसपर्यापन्ना अपि सर्वसत्ताः प्रत्येकबुद्धभूताः कल्पकोटीनियुतशतसहस्रमभिगणयंतो मा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥१३॥ सचेन्मे भगवंस्तस्मिन्बुद्धक्षेत्रेऽनुतरां सम्यक्संबोधिमभिसंबुद्धस्य प्रमाणिकी मे प्रभा भवेदंत बुद्धक्षेत्रकोटीनियुतशतसहस्रप्रमाणेनापि मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥१४॥ सचेन्मे भगवन्ननुतरां सम्यक्संबोधिमभिसंबुद्धस्य
1 See Childers s. v. rasi.
' प्रमानेनापि P. प्रमानापि A. B. प्रमाणनापि c.
For Private and Personal Use Only