________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सुखावतीव्यूहः ॥
असदृश निर्वाणधातुसौख्यं । तश्च' असत्त्वतया विशोधयिष्ये ॥ ४ ॥ दशदिशत समागतानि सत्त्वाः । तत्र गता सुख में दिशंति क्षिप्रं । बुद्ध मम प्रमाणु अत्र शिक्षी । अवितथवीर्यबलं जनेमि च्छंद ॥ ९ ॥ दशदिश लोकविदसं गज्ञानी । सद मम चित्त प्रजानयंति तेऽपि । अविचिगतु अहं सदा वसेयं । प्रणिधिबलं न पुनर्विवर्तयिष्ये ॥१०॥४॥
C
अथ खल्वानंद स धर्मकरो भिक्षुस्तं भगवंतं लोकेश्वरराजं तथागतं संमुखमाभिर्गीथाभिरभिष्टुत्यैतदवोचत् । अहमस्मि भगवन्ननुत्तरां सम्यक्संबोधिमभिसंबोडुकामः । पुनः पुनरनुत्तरायां सम्यक्संबोध चित्तमुत्पादयामि परिणामयामि । तस्य मे भगवाञ्छास्ता तथा धर्म देशयतु यथाहं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं । असमसमस्तथागतो लोके भवेयं । तांश्च भगवानाकारान्परिकीर्तयतु यैरहं बुद्धक्षेत्रस्य गुणव्यूहसंपदं परिगृह्णीयां ॥ एवमुक्त आनंद भगवाँल्लोकेश्वरराजस्तथागतस्तं भिक्षुमेतदवोचत्। तेन हि त्वं भिक्षो स्वयमेव बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिगृह्णीष्व । सोऽवोचत् । नाहं भगवंस्तत्सहेयं । अपि तु भगवानेव । भाषस्वान्येषां तथागतानां बुद्धक्षेत्रगुणव्यूहालंकार
1 तच्च ?
2 भाषस्व । येषां A. C.
भाषस्व येषां P. भावख ॥ येषां B.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
[III. 2.]
9