SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SMALLER SUKHAVATI-VYUHA. तत्किं मन्यसे शारिपुत्र केन कारणेनायं धर्मपर्यायः सर्वबुद्धपरियही नामोच्यते। ये केचिच्छारिपुत्र कुलपुत्रा वा कुलदुहितरो वास्य धर्मपयायस्य नामधेयं श्रोष्यंति तेषां च बुद्धानां भगवतां नामधेयं धारयिष्यंति सर्वे ते बुद्धपरिगृहीता भविष्यंत्यविनिवर्तनीयाश्च भविष्यंत्यनुत्तरायां सम्यक्संबोधी । तस्मातर्हि शारिपुत्र श्रद्दधाध्वं प्रतीयथ माकांक्षयथ मम च तेषां च बुद्धानां भगवतां । ये केचिच्छारिपुत्र कुलपुत्रा वा कुलदुहितरो वा तस्य भगवतोऽमितायुषस्तथागतस्य बुद्धक्षेत्रे चित्तप्रणिधानं करिष्यंति कृतं वा कुर्वति वा सर्वे तेऽविनिवर्तनीया भविष्यंत्यनुतरायां सम्यक्संबोधौ तत्र च बुद्धक्षेत्र उपपस्यंत्युपपन्ना वोपपद्यति वा। तस्मातर्हि शारिपुत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिश्च तत्र बुद्धक्षेत्रे चित्रप्रणिधिरुत्पादयितव्यः ॥१७॥ तद्यथापि नाम शारिपुत्राहमेतर्हि तेषां बुद्धानां भगवतामेवमचिंत्यगुणान्परिकीर्तयामि एवमेव शारिपुत्र ममापि ते बुद्धा भगवंत एवमचिंत्यगुणान्परिकीर्तयति । सुदुष्करं भगवता शाक्यमुनिना शाक्याधिराजेन कृतं । सहायां लोकधातावनुतरां सम्यक्संबोधिमभिसंबुध्य सर्वलोकविप्रत्ययनीयो धर्मो देशितः कल्पकषाये सवकषाये दृष्टिकषाय आयुष्कषाये क्लेशकषाये॥१८॥ तन्ममापि शारिपुत्र परमदुष्करं यन्मया सहायां लोकधातावनुतरां सम्यक्संबोधिमभिसंबुध्य सर्वलोकविप्रत्ययनीयो धर्मों देशितः सत्वकषाये दृष्टिकषाये क्लेशकषाय आयुष्कषाये कल्पकषाये ॥१९॥ 02 For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy