________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ समन्वयकाण्डम् हंहो ! किमिदं समन्वयकाण्डम् , कश्च समन्वयः ? केषां च समन्वयः ? किमर्थं चैतत् प्रतन्यते ? इति
उच्यते, शृणु सावधानतया"षणां विरोधोऽपि च दर्शनानां तथैव तेषां शतशश्च भेदाः। नानापथे सर्वजनः प्रवृत्तः को लोकमाराधयितुं समर्थः ॥"
इति केनचित् पण्डितंमन्येन आत्मविकासोपायसूचापरायणानामपि सर्वेषां प्राचां दर्शनानां परस्परं विरोधमुद्भाव्य व्युद्राहितो लोको नाऽद्यावधि कल्याणपथं प्राप्तुम् , निरीक्षितुम् , विचारयितुम् वा क्षमः, प्रत्युत तैरेव शिवसाधकदर्शनैः परस्परं कलहायमानः-प्रायः कषायवृद्धिमेवं वितन्वानोऽधोगतिमेव प्रयाति-इति, तद्बोधनिमित्तं तेषां षणामपि दर्शनानां समन्वयं प्रचिकटिपुन्थकार इदं नवीनमेव प्रकरणं प्रकाशते---
लोकेऽपि श्रूयते, प्रत्यक्ष्यते च वैद्यशालायाम्-यत् समागतेषु अनेकेषु ज्वराक्रान्तेषु, वैद्यस्तान् सकलानपि ज्वरिणः परीक्ष्य प्रकृतिभेदेन विविधमौषधम् , विविधं पथ्यं च प्रदर्शयति. ततो न ते रोगिणः क्वापि कदाचित् परस्परम् औषधभेदेन, पथ्यभेदेन वा कलहयन्ति, वैद्याय वा शपन्ति अथवा इदमेव औषधं वरम् , इदं च न वरम् इति परस्परं विवदन्ते, अथवा गणितशालायां अनेके गणितशास्त्रिणः चतुर्विंशतिसंख्यासाधने प्रवृत्ताः 'आठ तेरी चोवीश' 'छ चोक चोवीश' 'त्रण अट्ठां चोवीश' 'चार छक चोवीश' 'बार दु चोर्वाश' एवम् अनेकरीत्या चतुर्विंशतिं साधयन्ति. एवं साध
For Private And Personal Use Only