________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-४७
विभावकस्य आत्मनः परिस्पन्द आस्रवः ॥ ५१ ॥
यद्यपि अयम् आस्रववाच्यार्थः पूर्वोक्तयोर्धर्माऽधर्मयोरन्तभवति, तथापि श्रीजिनशासने श्रवशब्दस्य सविशेषं प्रसिद्धस्वेनैव तस्याऽत्र पृथग् व्याख्या | शुभवेदयम् आत्मानम् उपगृह्णाति यमेव शुभो विघातयति श्रात्मविकासम् इति ।
शुभाशुभानाम् आश्रवाणां निरोधरूपो य श्रात्मन: परिस्पन्दः - स स्वरूपावस्थाननिमित्तत्वेन आत्मानम् उपगृह्णात्येव सच-
तन्निरोधः स्वरूपावस्थानसहायी संवरः ॥ ५२ ॥
एतौ श्रव - संवरौ आत्मपरतन्त्रौ, आत्मा सकर्मकत्वेन नैकप्रकार:, अत एव एतयोरपि नानात्वं स्वयमेव नेतव्यमिति आत्मनः उपग्राहक - उपघातकाः ।
स्वरूपावस्थानरूपं मोक्षतच्वं ससाधनम् आत्मकाण्डे एव प्रमण्डितम्, ततो नात्र वित्रियते
इति - प्रात्मकाण्डम्.
For Private And Personal Use Only