________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यद्यपि परमाणूनां सर्वजातीयरूप-रस-स्पर्श-गन्ध-शब्दवत्वेन हिमेऽपि काठिन्यस्य, जलेऽपि उष्णस्पर्शस्य, अनावपि मणिसन्निधाने शैत्यस्य सद्भावात् काठिन्यमेव पृथिव्याम्, शीतस्पर्शमेव जलम्, उष्णस्पर्शभागेव अग्निः-इत्यादि व्यवस्थानं नौचितीमञ्चति, तथापि लौकिकमेव व्यवहारमाश्रित्य अत्र इदं ग्रन्थकृता विभक्तम्-यतो हि शास्त्राद् रूढिर्बलीयसी इति दिक्, अत्र विस्तरस्तु षड्दर्शनसमुच्चयबृहट्टीकातोऽवसेयः पुद्गलप्रकरणगत इति स्थावराः । अथ स्थावरानन्तरं त्रसान् विभजति
तभिन्नाः प्रसाः ॥ ११ ॥ परिस्पष्टसुखादिलिङ्गकत्वम्, सनामकर्मोदयवत्वं वा त्रसलक्षणम्
ते चतुर्विधाः ॥ १२ ॥ ते त्रसाः द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियभेदात् चतुर्विधाः । सानाम् इन्द्रियाणि द्वीन्द्रियादिशब्देनैव प्रतीतानि, तेषां पूर्वोक्तानां स्थावराणां च श्वास-निःश्वासआहार-निहार-विहार-आयुःस्थिति-कर्मबन्ध--विविधचेष्टादिकं सर्व प्रज्ञापना-श्रीभगवतीतः समवबोध्यम् । तद्भेदप्रभेदा अपि तत एव समवगम्याः । तेषाम् “ अमुकस्य इमानि इयन्ति इन्द्रियाणि ' इत्यादिको विभागः अग्रे वक्ष्यते.
पूर्वदर्शितमपि इन्द्रियस्वरूपं विस्तरतो दर्शयितुकामो ग्रन्थकारः अत्र एकेन्द्रियादिप्रसङ्गतस्तल्लक्षणादिना पुनरपि सम्प्रदायरुचिभ्यः शिष्येभ्यः प्ररूपयति
For Private And Personal Use Only