SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ पर्याय- पदप्रसिद्धाः तयोर्द्वयोरपि श्रत्र नये संग्रहाय धर्मान् अर्थयते व्यवहारसाधनतया इति धर्मार्थिकः - अत्र ' धर्मार्थिक' पदेनैव गुणार्थिक - पर्यायार्थिकपदयोः सुसंग्रहाद् न तद्भेदविधानं लेखविषयं नीतम् - तत्सुस्पष्टीकरणाय च ' धर्म' शब्दस्यैव विशदा विपुला च व्याख्या व्याख्याता. शब्दोऽपि ॥ ५ ॥ व्यवहाराणां वैचित्र्यात् तेषु केचिद् व्यवहारा यथा पदार्थान् तद्धर्मांश्च समवलम्बते, तथा केचिद् व्यवहारा नार्थविषयाः- न धर्मविषयाः - किन्तु केवलम् अङ्गीकृतार्थशब्दविषया एव. यथा पाको भविष्यति, सारथिर्गतः, नैतद् वर्तते रामराज्यम् - तेषां शब्दविषयाणां व्यवहाराणां नयनार्थमयम् शब्दोऽपि नयः - प्रवृत्तः शब्द- नाम्नैव प्रख्यातः । यद्यपि श्रोता पदार्थपदार्थधर्मप्रवणमेव शब्दं शृणोति वक्त्राऽपि च तथाप्रकारमेज वक्त इति श्रस्यापि शब्दनयस्य द्रव्यार्थिक-धर्मार्थिकयोरेव निवेशनं समुचितम्, किंतु व्यवहारे क्वचित् कुत्रचित् कदाचित् शब्दव्यवहारस्यापि प्रधानतासमीक्षणेन अयम् मुख्यनयद्वयान्तभृतः शब्दोऽपि नयो ग्रन्थकृता पृथगुल्लेखतां नीतः इति. एष्वेव त्रिषु नयेषु सप्तानामपि नयानाम् तेषां सप्तशत्या वा समावेशः सुबोधः । तथाहि नैकगमो नैगमो धर्मिणमवलम्बमानः द्रव्यार्थिके, धर्मम्, धर्मान् वा समाश्रितो धर्मार्थिके निविशते. वस्तुगत पराऽपरसामान्यं भजमानः पराऽपरनामविशिष्टः संग्रहो धर्मार्थिक एव स्वतनुं संधत्ते. धर्मान् धर्मिणश्च संधारयन् व्यवहारप्रवणो व्यवहारनयः यथायोगं मुख्यनयान्यतरैकनये स्वात्मानं नयति. For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy