________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोतिदिए णं भंते ! कतिपदेसिते १ गोयमा ! अणंतपदेसिते-एवं जाव फासिदिए-( सर्वेषामपि इन्द्रियाणांअनन्तप्रदेश (परमाणुमयत्वम् ").
इन्द्रियाणि शरीरान्तरेव स्वस्थित्या कियन्तं गगनाभोगम् -प्राब्रियन्ते । तदाह
"सोइंदिए णं भंते ! कतिपदेसोगाढे १ गोयमा ! असंखेञ्जपएसोगाढे पसत्ते. एवं जाव फासिदिए-( पञ्चाऽपि इन्द्रियाणि शरीरान्तरेव असंख्येयान् गगनप्रदेशान् स्वस्थित्या समाच्छादयन्ति)" समानेऽपि सर्वेषामिन्द्रियाणां गगनभागावगाहित्वे अयं विशेष:-"चचुरिन्द्रियं हि असंख्येयानपि सर्वस्तोकान् गगनभागान अवगाहते. ततः चक्षुरिन्द्रियात् अधिकानपि गगनभागान श्रोत्रेन्द्रियं समावृणोति, ततः श्रोत्रेन्द्रियात् अधिकतरानपि गगनप्रदेशान् घ्राणन्द्रियं समाच्छादयति, ततः घ्राणात् अधिकतमानपि आकाशप्रदेशान् जिह्वा-इन्द्रियं समवगाहते, ततोऽपि समधिकतरान् गगनभागान् स्पर्शेन्द्रियं समावृतान् करोति" अर्थात-सर्वेभ्यो महत्तमम् इन्द्रियं स्पर्शन्द्रियम् , ततो न्यूनं (लघु-सूक्ष्मम्) जिह्वा-इन्द्रियम्, ततो न्यूनं घ्राणम् , ततोऽपि न्यूनं श्रोत्रम् , ततोऽपि न्यूनम् नेत्रम्-नेत्रं तु सर्वत एव न्यूनतमम्.
इन्द्रियगतपरमाणूनां स्पर्शविचारः__ " चक्षुरिन्द्रिये सर्वस्तोका कर्कशता, गुरुता च, ततः समधिका श्रोत्रे, ततोऽपि समधिकतरा घाणे, ततः समधिकतमा रसनायाम् , सर्वेभ्यः समधिका स्पर्श-इन्द्रिये." स्पर्शेन्द्रिये सर्वस्तोके मृदुत्व-लघुत्वे, ततः समधिके ते रसनायाम् , ततोऽपि ते अधिके घ्राणे, ततः समधिके श्रोत्रे, ततोऽपि अधिकतरे नेत्रे
For Private And Personal Use Only