________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३७०
तत्त्वनिर्णयप्रासादशुभशास्त्राकर्णनं च तथा नाऽभक्ष्यभक्षणम् ॥ अत्याज्यानां न च त्यागोप्यऽघात्यानामघातनम् ॥ ७॥ अतिथौ च तथा पात्रे दीने दानं यथाविधि ॥ दरिद्राणां तथांधानामापदारभृतामपि ॥ ८॥ हीनाड़ानां विकलानां नोपहासः कदाचन ॥ समुत्पन्नक्षुत्पिपासाघृणाक्रोधादिगोपनम् ॥ ९॥ अरिषड्वर्गविजयः पक्षपातो गुणेषु च ॥ देशाचाराऽऽचरणं च भयं पापापवादयोः ॥ १० ॥ उद्दाहः सदृशाचारैः समजात्यन्यगोत्रजैः॥ त्रिवर्गसाधनं नित्यमन्योन्याप्रतिबंधतः ॥ ११ ॥ परिज्ञानं स्वपरयोदेशकालादिचिंतनम् ॥ सौजन्यं दीर्घदर्शित्वं कृतज्ञत्वं सलज्जता ॥ १२॥ परोपकारकरणं परपीडनवर्जनम् ॥ पराक्रमः परिभवे सर्वत्र क्षांतिरन्यदा ॥ १३ ॥ जलाशयश्मशानानां तथा दैवतसद्मनाम् ॥ निद्राहाररतादीनां संध्यासु परिवर्जनम् ॥ १४ ॥ प्रवेशोल्लंघनं चैव तटे शयनमेव च ॥ कूपस्य वर्जनं नद्यालंघनं तरणीं विना ॥ १५॥ गुर्वासनादिशय्यासु तालवृक्षे कुभूमिषु ॥ दुर्गोष्टिषु कुकार्येषु सदैवासनवर्जनम् ॥ १६ ॥ न लंघनं च गर्तादेर्नदुष्टस्वामिसेवनम् ॥ न चतुर्थीदुनग्नस्त्रीशकचापविलोकनम् ॥ १७॥ हस्त्यश्वनखिनां चापवादिनां दूरवर्जनम् ।। दिवासंभोगकरणं वृक्षस्योपासनं निशि ॥ १८॥
For Private And Personal