________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८०
तत्वनिर्णयप्रासादकथंभूतस्त्वं । बुद्धः ज्ञाततत्त्वः । कस्मात् विबुधार्चितबुद्धिबोधात् । विबुधैः गणधरैर्देवैर्वा अर्चितः जितो बुद्धेः केवलज्ञानस्य बोधो वस्तुस्तोमपरिच्छेदो यस्य स विबुधार्चितबुद्धिबोधस्तस्मात् विबुधार्चितबुद्रिवोधातू इति बहुव्रीहिः। पक्षे बुद्धः । सप्तानामन्यतमः सुगतः केवलज्ञानाविन ज्ञाततत्त्वो नास्तीति भावः । हे नाथ ! खेमेव शंकरोऽसि । असीति क्रियापदं । कः कर्ता । त्वं । कथंभूतस्त्वं । शंकरः। कस्मात् । भुवनत्रयशंकरत्वात् । भुवनत्रयस्य जगत्रीतयस्य शंकरत्वात् सुखकारित्वात् । भुवनानां त्रयं भुवनत्रयं इति तत्पुरुषः। भुवनत्रयस्य शं सुखं करोतीति भुवनत्रयशंकरस्तस्य भावस्तत्त्वं तस्मात् भुवनत्रयशंकरत्वात् । इति तत्पुरुषः । पक्षे शंकरो महादेवः स तु कपाली नग्नो भैरव; संहारकः तेन यथार्थनामा शंकरो नास्तीति भावः। हे धीर! धियं बुद्धिं राति ददातीति धीरस्तस्य संबोधनं हे धीर ! धाता त्वं असि । कस्मात् । निष्पादनात् । कस्य शिवमार्गविधेः । शिवस्य मोक्षस्य मार्गः पंथा । तस्य विधिः रत्नत्रयरूपयोगस्तस्योति तत्पुरुषः। एतावता मोक्षमार्गविधेर्विधानात् त्वमेव धातासीत्यर्थः संपन्नः। पक्षे धाता ब्रह्मा स तु जडो वेदोपदेशान्नरकपथमुदजीघटत्तेन शिवमार्गविधेविधायको नास्तीति भावः । हे भगवन् ! त्वमेव व्यक्तं स्पष्टं पुरुषोत्तमः असि । पुरुषेषु उत्तमः पुरुषोत्तम इति तत्पुरुषः! पक्षे पुरुषोत्तम कृष्णः । स तु सर्वत्र कपटप्रकटनात् यथार्थी पुरुषोत्तमतां न धत्ते इति भावः ॥ २६॥
भावार्थ:-यह है कि, ह नाथ ! विबुधों, वा गणधरों, वा देवोंकरके पूजित केवलज्ञानके वोध वस्तु स्तोमके प्रगट करनेवाला होनेसें, तुंही बुद्ध है. पक्षमें सातों बुद्धोंमेंसे अन्यतम सुगत केवलज्ञानंक अभावकरके ज्ञाततत्त्व नहीं है. हे नाथ ! तीन भुवनकों, शं (सुख ) करनेसे तूं शंकर है. पक्षमें शंकर, महादेव, सो तो, कपाली, नग्न, भैरव संहारक होनेकरके यथार्थनामा शंकर नहीं है. हे धीर ! ज्ञानदर्शनचारित्ररूप मोक्षमार्गके विधिकों करनेसे तूंही धाता है. पक्षमें धाता, ब्रह्मा, सो तो, जड है. वेदोपदेश (हिंसकशास्त्रोपंदश) से नरकपथकों प्रगट करता भया, तिसकरके शिवमार्गके विधिको करनेवाला नहीं है. हे भगवन् !
For Private And Personal