________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयस्तम्भः ।
४५
राशि है, और गायत्री उसकी अधिष्ठात्री है, इस हेतुसें गायत्रीके संग गमन करनेमें ब्रह्माजीको कुछ दोष नही है. ऐसा होनेपर भी पूर्वके प्रजापति ब्रह्माजी अपनी पुत्रीके साथ संगम करनेसें बडे लज्जित हुए, और क्रोधसें कामदेवको यह शाप देते भये कि, जो तैंने मेरा भी मन अपने बाणोंसे चलायमान कर दिया, इसहेतुसे शीघ्रही तेरे शरीरको - शिवजी भस्म करेंगे. - इत्यादि - तथा च नवषष्टितमेऽध्याये ॥
॥ ब्रह्मोवाच ॥
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः ॥ सदाचारस्य भगवन् धर्मशास्त्रविनिश्चयः ॥ पुण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्वतः ॥ १ ॥ ॥ ईश्वर उवाच ॥
तस्मिन्नेव युगे ब्रह्मन् सहस्राणि तु षोडश ॥ वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव ॥ २ ॥ ताभिर्वसन्तसमये कोकिलालि कुलाकुले ॥ पुष्पिते पवनोत्फुल्लकहूलारसरसस्तटे ॥ ॥ ३ ॥ निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृतः ॥ कुरंगनयनः श्रीमान् मालतीकृतशेखरः ॥ ४ ॥ गच्छन् समीपमार्गेण सांबः परपुरंजयः ॥ साक्षात्कन्दर्परूपेण सर्वाभरणभूषितः ॥ ५ ॥ अनंगशरतप्ताभिः साभिलाषमवोक्षितः ॥ प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि ॥ ६ ॥ तदावेक्ष्य जगन्नाथः सर्वतो ध्यानचक्षुषा ॥ शापं वक्ष्यति ताः सर्वा वो हरिष्यति दस्यवः ॥ मत्परोक्षं यतः कामलौल्यादीदृग्विधं कृतम् ॥७॥
For Private And Personal