________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयस्तम्भः। अहोरूपमहोरूपमिति प्राह पुनः पुनः॥ ततः प्रणामनयां तां पुनरेवाभ्यलोकयत् ॥३५॥ अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी ॥ पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ॥ ३६॥ आविर्भूतं ततो वक्र दक्षिणं पाण्डु गण्डवत् ॥ विस्मयस्फुरदोष्ठं च पाश्चात्यमुदगात्ततः॥ ३७॥ चतुर्थमभवत्पश्चाद्वामं कामशरातुरम् ॥ ततोन्यदभवत्तस्य कामातुरतया तथा ॥ ३८॥ उत्पतन्त्यास्तदाकारा आलोकनकुतूहलात् ॥ सष्टयाथै यत्कृतं तेन तपः परमदारुणम् ॥३९॥ तत्सर्वं नाशमगमत् स्वसुतोपगमेच्छया ॥ तेनोर्ध्व वक्रमभवत्पंचमं तस्य धीमतः आविर्भवज्जटाभिश्च तद्वनं चाटणोत्प्रभुः ॥ ४० ॥ ततस्तानब्रवीद्ब्रह्मा पुत्रानात्मसमुद्भवान् ॥ प्रजाः सृजध्वमभितःसदेवासुरमानुषीः ॥ ४॥ एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः॥ गतेषु तेषु सृष्ट्यर्थ प्रणामावनतामिमाम् ।।४२॥ उपयेमे स विश्वात्मा शतरूपामनिंदिताम् ॥ सम्बभूव तया साईमतिकामातुरो विभुः ॥ सलज्जां चकमे देवः कमलोदरमन्दिरे॥४३॥ यावदष्टशतं दिव्यं यथान्यः प्राकतो जनः॥
ततः कालेन महता तस्याः पुत्रोऽभवन्मनुः ॥४४॥ भाषा-प्रथम ब्रह्माजी लोककी रचनाके निमित्त बडी सावधानीसें हृदयमें सावित्रीको धारण करके उसको जपते हुए पापरहित देहको भेदन करके
For Private And Personal