________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निग्रहस्याननिरूपणम् ।
स्वसिद्धान्ते परेणापादितं दोषमनुद्धृत्य परस्यानिष्टबुड्या इष्टप्रसञ्जनं मतानुज्ञेत्यर्थः । तथा च सूत्रम् | स्वपक्षदोषाभ्युपगमात् परपक्षदोष प्रसड़ा मतानुज्ञेति । यथा केन चिदात्मनश्चोरत्वमभ्युपगम्य पुरुषत्वाचीरस्त्वमसीत्युक्ते तत एव हेतोस्त्वमपि चार इति प्रसञ्जनम् । न ह्यनेनात्मनश्चारत्वं परिहृतम् । न होकमिन्धनमग्निसम्बद्धं दग्धमित्यन्यन्न दह्यते । न चायं प्रसङ्गः इष्टापादनत्वात् । तथा अनित्यः शब्दः कार्यत्वादित्युक्ते तत एव हेतोर्घटोऽप्यनित्यः स्यादित्यादीन्यप्युदाहरणानि । अत्रानिष्टमेव परस्य ब्रूयादिति रहस्यम् । भूषणकारः पुनरेवं व्याख्यातवान् । यस्तु स्वपक्षे दोषमनुद्धृत्य केवलं परपक्षे दोषं प्रसञ्जयति स तु परापादितदोषाभ्युपगमात् परमनुजानातीति मतानुज्ञया निगृह्यत इति । अत्र स्वदोषपरिहारेखैव परस्य दोषं प्रसज्ञ्जयेदिति सङ्क्षेप इति ॥ १७ ॥
For Private and Personal Use Only
३५३
अनिष्टं प्रतिवादिनाभिमतं स्वपक्षे परोक्तदोषमनुदूधृत्येति शेषः । अनेन त्वमपि चोर इति वचनेन न हि दूष्यत इति सम्बन्धः । न चायं प्रसङ्गः त्वमपि चार इति वचनं प्रस्तुतानुमानस्यानिष्टप्रसङ्गाख्यप्रतिकूलतकी न भवतीति परस्य स्वचोरत्वस्येषृत्वादित्यर्थः । आदिशब्दादीश्वरो न कर्ता आत्मत्वाजीववदित्युक्ते तर्हि तत एव जीवोयसर्वज्ञः स्यात् । क्षित्यादिकं नेश्वरकर्तृकं कार्यत्वाद् घटवदित्युक्ते तर्हि तत एव घटः सावयवी स्यादित्यादिकं
५०३