________________
Shri Mahavir Jain Aradhana Kendra
३५०
www.kobatirth.org
सटीकतार्किकरक्षायाम्
५००
अनुपयुक्ताभिधानेनार्थान्तरत्वप्रसङ्गात् । प्रौढिप्रकटनाय सर्वानुभाषणनियमे तदकरणमेव निग्रहहेतुर्भवति । न च तेनैव वादिवाकयेनानुभाषणीयमिति नियमः । वाक्यान्तरेणानुभाषणे ऽपि तत्प्रयोजनसिद्धेः तत्प्रसिद्धपदैरेवानुवादेनानुभाषणमित्यननुभापणाभासं दर्शयद्विराचार्यैरेव वादिप्रसिद्धपदैरप्यनुभाषणस्याङ्गीकृतत्वाञ्च विज्ञातस्य परिषदा त्रिरभिहितस्याप्रत्युच्चारणमननुभाषणमिति सूत्रं सुगममेवेति ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञातेऽपि वादिवाक्यार्थे प्राश्निकैस्तत्र चेत् परः । स्वाज्ञानमुद्रावयति तदाज्ञानेन निग्रहः ॥ १४ ॥
वादिना त्रिरुक्ते प्राश्निकैज्ञातार्थे सत्यपि वादिवाको प्रतिवादी स्वाज्ञानमाविष्करोति न ज्ञायते मयेति तदा तस्याज्ञानं नाम निग्रहस्थानं भवति । श्रज्ञानानाविष्करणे त्वननुभाषणमेव निश्चितत्वादुद्भाव्यम् । - ज्ञातं याज्ञानमिति सूत्रे चकारः परिषद्विज्ञानं वादित्रिरभिधानं च समुचिनोति । प्रविज्ञातं वादिवाक्यं येन तस्याज्ञानमिति । अथवा भावे कोत्पत्तिरङ्गीकार्य यस्य वादिवाक्यार्थे श्रन्ज्ञानं तस्याज्ञानमित्यर्थः ॥ १४ ॥ पूर्वेण सम्बन्धः । तत्प्रसिद्धपदैः वादिवाक्यव्यतिरिक्तपदैः । अननुभाषणाभासं निरनुयेोज्यानुयोगविशेषम् ॥ १३॥ वादिवाक्यमर्थप्रतिपत्तये विशेषः । भावेोत्पतिविशेष्यवाचकस्य शब्दस्य विशेषण धर्मपरत्वम् ॥ १४ ॥
For Private and Personal Use Only