________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निग्रहस्थाननिरूपणम् ।
३२५
श्रविशेषितपूर्वोक्ते साध्याशे दूषिते पुनः ॥ ३ ॥ तद्विशेषणनिक्षेपः प्रतिज्ञान्तरमिष्यते " ।
द्वांशो अनुमान प्रयोगः । साध्यांशः साधनांशइचेति । तत्र साध्यांशः प्रतिज्ञेोदाहरणे प्रयोज्यभागों निगमनं चेति । शेषः साधनांशः । तत्र निर्विशेषणं प्रयुतस्य साध्यांशस्य दूषणेोद्भावने परेण कृते सति तत्परिजिहीर्षया पुनर्विशेषणं प्रक्षिप्य पूर्वोक्तस्यैव निर्देशः प्रतिज्ञान्तरम् । तथा च सूत्रम् । प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरमिति । श्रविशिष्टस्य साध्यभागस्य प्रतिषेधे कृते धर्मविकल्पं प्रक्षिप्य तदर्थस्य तस्यैव पूर्वोक्तस्यार्थस्य तदर्थं साध्यसिडार्थं वा निर्देशः प्रतिज्ञान्तरमित्यर्थः । तच्च पक्षतद्विशेषणसाध्यतद्विशेषणप्रक्षेपेण चतुर्विधम् यथा नित्या वर्णः श्रावणत्वाच्छन्दत्ववदित्युक्ते ध्वनिभिरनै
उदाहरणे प्रयोज्यभागः यत् कृतकं तदनित्यं दृष्टमित्यादौ तदनित्यं दृषृमित्यादिः शेषः हेतुरुदाहरणे यत् कृतकमित्यादिः उपनयश्च निर्विशेषणं निरुपपदं प्रक्षिप्य उक्तदोषनिवारकमधीन्तरमुक्तत्वा धर्मविकल्पं प्रक्षिप्प धर्मेौ ध्वनिर्वणात्मकत्वादिः तस्य विकल्पः पक्षतद्विशेषणत्वादिरूपेण येोजनं तथेोक्तवेत्यर्थः । अर्थान्तरमाह । तदर्थमिति । साध्यसिद्धार्थमित्यत्र प्रतिषेधनिवृत्त्यर्थमिति द्रष्टव्यम् ।
(१) मुच्यते - पा. A पु.
For Private and Personal Use Only
२४३