________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिनिरूपणाम् ।
नैकान्तिकत्वमुच्यते । तस्य व्यञ्जकत्वमसिद्धम् । तत्साधकस्य प्रयत्नानन्तरोपलब्धेरिति हेतोर्घटादिकायैरनैकान्तिकत्वादिति कार्यसमः । अथवा अनैकान्ति कत्वादिति प्रतिषेधहेतावपि समानेोऽनैकान्तिकत्वदोषः । न हायमेकान्ततः प्रतिषेधक एव स्वसत्ताया अप्रतिषेधकत्वादिति वाक्कलप्रयोगादिति । यद्वा दोषवत्त्वमात्रेण साम्यमुक्ता यं कचिद्दोषमाह । अत्र प्रथमतृतीययोर्मतानुज्ञा स्वदेोषानुद्धरणेन परदोषापादनात् । द्वितीये तु निरनुयोज्यानुयोग इति । किमस्यामेव जाता कथाभासप्रवृत्तिरित्या शंका मित्याह ।
३१३
त्रापीति । एतदेवेापपादयति । प्रयत्नस्येति । शब्दनित्यत्ववादिना तस्य प्रयत्नव्यङ्ग्यत्वमङ्गीकृत्य मूलेोदकादावनैकान्तिकत्वमुक्तम् । तस्य शब्दस्य प्रयत्नव्यङ्ग्यत्वमसिद्धम् । तत्साधकत्वं च शब्दः प्रयत्नव्यङ्ग्यः प्रयत्नानन्तरोपलब्धत्वात् मूलादकादिवदिति । अयमपि हेतुः प्रयत्नजन्यैर्घटादिभिः अनैकान्तिकत्वादसाधकः ततः प्रयत्नव्यङ्ग्यत्वासिद्धि: शब्दस्य तदवस्यैवेति कार्यसम इत्याह इत्यर्थः । अथ सूत्रगतप्रति
For Private and Personal Use Only
शब्दयोरर्थान्तरमाह अभिधावृत्तिवैपरीत्यात् प्रतिषेधरनैकान्तिकत्वम् न तु पूर्ववद्यभिचारादित्याह । न हायमिति । अथ दोषशब्दस्य सम्मुखदोषमात्रवाचकत्वभित्याह । यद्वेति । अनिष्टापादनाज्जातिवादिनः स्वसाध नस्य साम्यत्वमनभिमतं तस्यैव वादिनोप्यनभिधानोप्यभिधावादिवदित्यर्थः । द्वितीये छलप्रयोग इति षट्पक्षाः
७६३