________________
Shri Mahavir Jain Aradhana Kendra
२६४
www.kobatirth.org
सटीकतार्किकरताथाम्
यमनुपलब्धिसमेति । तर्ह्यपलब्धिरेव सूर्द्धभिषिक्तो विषयिधर्म इति तदेवोपलक्षणमुचितम् मैवम् उपलब्धिसमसङ्करप्रसङ्गात् । केचित्तु भावात्मकेषु विषयिधमैषु प्रवृत्तमिदमेव प्रत्यवस्थानमुपलब्धिसमः अभावात्मकेषु त्वनुपलब्धिसम इति व्याचक्षते । तदशिष्यम् अनादेशिकत्वात् । व्यवच्छेदकवाक्यार्थरुचीनां पूबैदाहृतप्रत्यवस्थान स्याजातित्वप्रसङ्गाञ्च तस्यान्यत्रानन्तभावात् । उपलब्धं लिङ्गं साध्याङ्गमिति तदर्थीऽयं प्रयोगः । सा चेोपलब्धिः स्वात्मन्यनुपलब्धिरूपेण वर्तते चेत् साप्युपलभ्या स्यात् नोपलब्धिः विषयइत्यर्थः अनुपलब्धिसमः । सङ्करेति । जातिद्वयस्योपलब्धिसम इत्येकनामप्रसङ्गादित्यर्थः । भावात्मकेषु अनन्तरप्रयेोगेषु उपलब्धीच्छाद्वेषादिषु अभावात्मकेष्वनन्तरप्रयोगेव्वनुपलब्ध्यनिच्छादिषु । अशिष्यमसाम्प्रदायिकमयुक्तं च। अनादेशिकत्वाद्भाष्यकारादिभिरनुक्तत्वात् । व्यवच्छेदवाक्यार्थरुचीनां नित्यसामान्यानङ्गीकारेण घटादिशब्दानां घटत्वादिसमारोप श्लिषृव्यक्तिवाचकत्वाभावेनायं घट इति शब्दस्यायं पटादिर्न भवतीति व्यावृतिरेवार्थ इतिवदत्तां बोडानामित्यर्थः । पूर्वोदाहृतेति । उपलब्धिसमायां प्रयुक्तावधारणविकल्पस्य अजातित्वप्रसङ्गात् अङ्गाधिक्येनासदुरत्तरस्य छ्लाद्यनङ्गभूतस्य जात्यन्तरोक्त लक्षणहीनस्य भावाभावधर्मरहितस्य च जातावप्यन्तभावाभावप्रसङ्गः । अत एव जातिसामान्यलक्षणमतिव्याप्तं स्यादिति भावः । तदर्थोऽयमिति । लिङ्गपक्षदृष्टान्तादीनामुपलब्धिप्रयोजनो
५४४
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only