________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सटीकतार्किकरक्षायाम्
संशयहेतुम् । ततश्च साध्यतदभावयोः संशयकारणादित्यर्थः । एवं च विषयतः कारणतश्च व्याप्तिर्भवति । दोषमूलं तु युक्ताङ्गहानिः निर्णयकाभावविशिष्टस्य समानधर्मादेः संशयहेतुत्वमित्यनङ्गीकारात् । अन्यथा निर्णायक सद्भावे ऽपि समानधर्मादेः संशयेोत्पत्तौ तदनुच्छेदप्रसङ्गात् । अयुक्ताङ्गाधिकत्वं वा समानधर्मादिविरहस्य निर्णयाङ्गत्वाभ्युपगमात् व्याघातस्तु सुगम एव । सूनं तु साधर्म्यात् संशये न संशयेा वैधर्म्यादुभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाञ्च सामान्यस्याप्रतिषेध इति । तत्र साधर्म्यवैधयीभ्यां संशायक निर्णयकावुपलक्षयति । सामान्यग्रहणेन च संशयहेतुम् । एतेनायमर्थः समानधर्मादेः संशये जनयितव्ये निर्णायकसद्भावान्न संशयः स्यात् । तस्मिन्नपि सत्येव संशयोत्पत्तौ संशयानुच्छेदप्रसङ्गः समानधर्मीदेर्नित्यं संशयहेतुत्वं च नाभ्युपगच्छामः ।
१८०
Acharya Shri Kailassagarsuri Gyanmandir
र्शनपरं न लक्षणोपयुक्तमिति भावः । साध्यतदभावयेोरिति । साध्यतद्विपरीतयोः संशयकारणस्य समानधमीदेः सद्भावादित्यर्थः । एवं वेति । नित्यानित्यसाधर्म्यशब्दानां एवमर्थस्वीकारे सति सर्वानुमानेषु सर्वसंशयहेतुरियं जातिः प्रवर्तत इत्यर्थः । अन्यथा युक्ताङ्गहीनत्वानङ्गीकारे । तदनुच्छेदप्रसङ्गात् संशयानवस्थाप्रसङ्गात् । स्वव्याघातस्त्विति जातिवादिनः प्रतिषेधानुमाने ऽपि समानधर्मीदिसद्भावात् प्रतिषेधवति कृतकत्वे हेतुरसिद्धो
For Private and Personal Use Only
Go