________________
Shri Mahavir Jain Aradhana Kendra
$90
www.kobatirth.org
सटीकतार्किकरचाया।
एतदुक्तं भवति लिङ्ग तज्ज्ञानं वा स्वकार्यमनुमितिज्ञानं प्राप्य साधयेद प्राप्य वा अप्राप्य चेत् सर्वस्यापि सर्व साधनं भवेदविशेषात् तेन प्राप्येति वक्तव्यम् सतां च प्राप्तिः सम्भवति सम्बन्धस्योभयनिष्टत्वेनान्यतरस्याप्यसत्त्वे निराश्रयत्वप्रसङ्गात् । तथा च कार्यस्याप्यवश्याङ्गीकर्तव्ये सत्त्वे कार्यकारणयेोरुभयोरपि सत्त्वेनाविशेषात् किं कस्य कारणं कार्यं वेति निष्फलमनुमानमिति कृतिपक्षे प्राप्तिसमायाः प्रवृत्तिः ज्ञप्तिपक्षे ऽप्यप्राप्य ज्ञापनेऽतिप्रसङ्गात् प्राप्येति वक्तव्यं लिङ्गज्ञानस्य लिङ्गिना संयोगादिप्राप्त्यसम्भवात् विषयविषयिभाव एवाङ्गीकार्यः । तत्र च लिङ्गनाने लिङ्गवल्लिङ्गिनोऽपि स्फुरणात् ज्ञातत्वेनाविशेषात् किं कस्य ज्ञापकं ज्ञाप्यं चेति । ततश्च प्राप्ताव विशेषेण साधनत्वप्रतिक्षेपो लक्षणम् । अप्राप्तावतिप्रसङ्गादसाधनत्वमुत्थान हेतुः । साध्यस्य पूर्वं सिद्धिर्हता र्विशेषणं तचान्न नास्तीति विशेष - प्राप्येति पक्ष दोषदर्शनेन । तथा च प्राप्तिप्रतिबन्धिनश्च निष्फलमनुमानम् अनुमितिज्ञानजननं ह्यनुमानप्रयोजनं तच्चेत् पूर्वमेव स्यादनुमानप्रयोगो व्यर्थः स्यादित्यर्थः । अतिप्रसङ्गाद्धेतेारविशेषज्ञापकत्वे प्रसङ्गात् लिङ्गज्ञानस्य लिङ्गपरामर्शख्यस्य हेतोर्लिङ्गिना साध्येन संयोगादिगुणस्य सता ज्ञानस्याश्रयव्यतिरिक्तेन संयोगसमवायाद्यसम्भवादित्यर्थः । तचात्र नास्तीति । हेतुसिद्धिसमये साध्यस्यापि सिद्धत्वात् उक्तमन्त्र अप्राप्तिसमायां प्राप्य साधयन्नित्य
५६
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only