SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेत्वाभासनिरूपणम् । २३८ बाधकत्वाद्दलवतेत्युक्तम् । तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्निर्द्रव्यत्वादिति । श्रनुमानबाधितो यथा सावयवाः परमाखवा मूर्तत्वादिति । कथमनुमानबाधित इति चेत् । उच्यते । श्राद्यावयवि स्वन्यूनपरिमाखोपादानमवयवित्वात् घटवत् । यथा अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् महापरिमाणतारतम्यवत् (२) । अन्यथा मशकमातङ्गयेोरप्यविशेषप्रसङ्गः अनन्तावयत्रारब्धत्वाविशेषादित्यनुमानेन निरवयवद्रव्यत्वेन परमाणु सिद्धेर्धर्मग्राहकप्रमाणबाधितत्वात् । श्रागमबाधितो यथा यागादयः स्वर्गसाधनं न भवन्ति क्रियात्वादिति । उपमानबाधितो बाघ इत्याशयेन पृच्छति । कथमिति । धर्मिग्राहकेणेत्याह । आद्येति । त्रसरेणुः सावयवावयवारन्धः चाक्षुषद्रव्यत्वात् घटवदिति सिद्धं झणुकमाचावयविशब्दार्थः । अथ तदबयवानामपि कार्यद्रव्यारम्भकत्वेन सावयवत्वानुमाने बाधकमाह । अव्विति । अत्रो भय साध्यानङ्गीकारे ऽनन्तावयवारयत्वाविशेषान्ममातङ्गयोस्तुल्यपरिमाणत्वप्रस 1 इत्याह । अन्यथेति । अंशत्रयविशिष्टभावनावरोधात् स्वर्गसाधनत्वेनैवागमावगतानां तदसाधनत्वसाधने तेनैव धर्मग्राहिणा बाध इत्याह । आगमेति । एवमुपमानावगतगवयशब्दवाच्यभावस्य गोसदृशपशोस्तवाच्यत्वानुमाने तेनैव बाध इत्याह । उपमानेति । ननु विशेषणाभा (१) कृष्णावत्या - पा. B पु. | (२) महवतारतम्यवत्-पा. B पु. । महत्परिमाणतारतम्यवत्-पा. C पु· । For Private and Personal Use Only ४३
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy