________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयनरूपणम् ।
लादिभिश्च स्वपरपक्षसाधनोपालम्भवती विजिगीचुकथा अल्पः । विजिगीषमाणयेोरुभयेोरपि साधनापालम्भक्ती कथा जल्प इत्याचार्यीः । तत्र हि मत्सरादिना विजिगीषया वा कथाप्रवृत्तेः । सदुत्तरापरिस्फू ती दलादिप्रयोगेणापि प्रतिवादी पर्याकुलितमान सीप्रतिमा सदुत्तरवादी वा भवेदितीतरस्यावष्टम्भे विजयसम्भवात् प्रमाशतकाभ्यामेव व्यवहार इत्यभिमानोऽपि म विवक्षितः । तस्यां च कथायां परपक्षताथनानुपालम्भे तु न स्वपक्षस्थितिमात्रेण विजयी अपि तु केवलं श्लाघ्य एव स्यात् । वञ्चितपरप्रहारस्तमप्रहरमाण इव वीरः । स्वसाधनासिद्धी परदूषणमात्रेणापि
२१३
For Private and Personal Use Only
भेद इत्यर्थः । अत्रापि विजिगीषुपद्मधिकारिनिरूपणार्थम् । अत्रोदयनसम्मतिमाह । विजिगीमाणयेोरिति । विजिगीषमाणाधिकारत्वाच्छला दिसभेद लभ्यते तेन वादाद् भेदः । शेषेण क्रमाद् वितण्डाकथाभासाभ्यां भेदः । ननु विजिगीषवोरपि वादवत् तत्राभिमानिको ऽपि प्रमाणतर्कव्यवहारः किं नेष्ट इत्याशयाह । तन्त्रेति । यथा कथञ्चित् परभञ्जनैकतत्पराणां किं तया चिन्तयेति भावः । अवष्टम्भा बलात्कारः । एकपक्षसत्त्वस्वपरपक्षसाधनोपालम्भयोर्द्वयोरपि यः कर्ती स एव जेता नान्यतरकारी किं त्वभावाद् भावोऽतिरिच्यत इति न्यायादुभयभ्राद् वरमिति श्लाघते केवलमिति सहान्तमाचष्टे । तस्यां चेत्यादि । जल्पलक्षणे सूत्रसम्मति
の